SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १ पा. ८ आ. शब्दकौस्तुमः। २६७ स्मिन्नप्यादिरन्त इति च व्यपदेशेतिदिष्टे तत्तत्सूत्रैरेव कार्याणीति भावः । तथा च पाञ्चः । आद्यन्तवव्यपदेशो निमित्तं पू. वत्सन इति । एतच्च निर्मूलमिति तस्मिन्नेव सूत्रे हरदत्तः । तस्यायं भावः । कार्यातिदेश एव तत्र युक्तः । सर्वातिदेशानां कार्यार्थतया कार्यस्यैव प्राधान्यात् । अत एव कार्यातिदेशाभ्युपगमे यत्र बाधकावतारस्तत्रैव प्रकारान्तरानुसरणम् । न चाचन्तवत्सूत्रे तदस्ति । प्रत्युत व्यपदेशातिदेशपक्षे एव बाधकम् । तथाहि । कुरुते कुर्वे इत्यादावन्त्यव्यपदेश आदिव्यपदेशश्चास्तु । तथाप्यन्त्योजादिर्यस्येत्येवंरूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया अभावे टेरेत्वं न स्यात् । कुर्वातइत्यादौ दृष्टस्य टेरेत्वाख्यस्य कार्यस्यातिदेशे तु न कश्चिद्दोष इति । तादात्म्यातिदेशस्तु पिनयोरमेदातिदेशः ( सुबामन्त्रित पराङ्गवत्स्वरइति यथा । तेन यत्तो दिवो दुहितमत्त भोजनमित्यादावामान्त्रितस्य चेत्याष्टमिकसूत्रेण पदात्परस्यामन्त्रितस्य क्रियमाणो निघातो दिवो दुहितरिति समुदाये प्रवर्तते । शास्त्रातिदेशस्तु कर्मवत्कर्मणेत्यत्र पाक्षिको वक्ष्यते । कार्यातिदेशो गोतोणिदित्यादिः। रूपातिदेशस्तु द्विवचनेचि तृज्वक्रोष्टुरित्यादिः । तदिह कार्यातिदेश एवेत्यत्र किं विनिगमकमिति चेत् । उच्यते । कार्यस्य प्राधान्यात्तदतिदेश एवायम् । अतिदेशान्तरे बाधकसत्वाच्च । तथाहि । निमित्तव्यपदेशातिदेशौ तावत्पाक्षिकावित्युक्तम् । शास्त्रातिदेशोप्येवम् । तादात्म्यातिदेशस्तु द्वयोः सहावस्थितयोः स्यात् । सुवामंत्रितयोरिव । इह तु स्थानी आदेशेन अपहृत इति तदसम्भवः । रूपातिदेशे वादेशविधानं व्यर्थ स्यात् । न च वंचनद्वयमामाण्याद्विकल्पः । विभाषालुङ्लुङोरिति विकल्पारम्भात् । तस्मास्कार्यातिदेश एवायमिति स्थितम् । यत्तु न्यासकारेणोक्तम् ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy