SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४७६ शब्दकौस्तुमः । [१ अ. भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ॥ एष्व-' र्येषु पदेरात्मनेपदं स्यात् । अत्रोपसम्भाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः। भासनन्दीप्तिः । शास्त्रे बदते । भासमानो ब्रचीतीत्यर्थः । भासनं हेतुभूतं. सद्विशेषणं शिष्यैः स्तूयमानो हि भासते । तथा चोपर्युपरि शास्त्रार्थप्रतिभासामुष्टूक्तिनिर्वहति । तेजोभने तु न शक्नुयावदितुमिति भावः । उपसम्भाषोपसान्त्वनम् ।कर्मकरानुपवदते उपसांत्वयतीत्यर्थः। ज्ञाने, शास्त्रे वदते । उक्तिविषयकज्ञानवानिति फलितोर्थः । यत्न उत्साहः । क्षेत्रे वदते । तद्विषयकमुत्साहमाविष्करातीत्यर्थः । अत्राविष्करणरूपस्य बदत्यर्थस्य यत्नः कर्मेत्याहुः । विशिष्टोत्र वदतरर्थ इत्यपि सुवचम् । विमतौ, क्षेत्रे विवदन्ते । विमत्या हेतुभूतया नानाविधं भाषन्तइत्यर्थः । उपमन्त्रणमुपच्छन्दनम् । कुलमार्यामुभवदते । स्वापिलषिते प्रवर्त्तयितुं प्रार्थयतइत्यर्थः । एतेष्विति किम् । यत्किञ्चिद्वदति ॥ ___व्यक्तवाचां समुच्चारणे ॥ मनुष्यादीनां सम्भूयोच्चारणे वदेरात्मनेपदं स्यात् । सम्प्रवदन्ते ब्राह्मणाः देवा वा । यद्यपि यद धातुयक्तायामेव पठ्यते । तथापि व्यक्तवाचामित्युपादानलामाघेषां प्रसिद्धतरं व्यक्तवाक्यन्तदेवेह गृह्यते । तेन शुफसारिकादीनां समुच्चारणे न भवति । वरतनु सम्प्रवदन्ति कुक्कुटाः । नन्विह तनुशब्दस्य ह्रस्वान्तत्वे सम्बुद्धौ चेति गु न भाव्यं, दीर्घान्तत्वे नदीलक्षणः कप प्राप्नोति । सत्यम् । तनुशब्दः स्त्रीलातौ कविभिः प्रयुज्यते । तस्मादूकुत इल्यूडि कृते कर्मधारयोयामिति हरदत्तः॥ ... अनोरकर्मकात् ॥ अनुपूर्वाद्वदेरकर्मकाद्वयक्तवाग्विषयकादात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अनुः सादृश्ये
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy