SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ३ पा. १ आ. शब्दकौस्तुमः । ४७५ प्रोपाभ्यां समर्थाभ्याम् ॥ तुल्यार्थाभ्यां प्रोपाभ्यां क्रमेरात्मनेपदं स्यात् । समस्तुल्योर्थो ययोरिति विग्रहे शकन्ध्यादित्वात्पररूपं संशब्द एव वा तुल्योर्थो बोध्यः । प्रारम्भेनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । आरभतइत्यर्थः । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः । उपपराभ्यामिति तु नेह प्रवर्त्तते । तत्र वृत्त्यादिग्रहणानुवृत्तेरुक्तत्वात् । इह च वृत्यादेरविवक्षणात् ॥ 1 अनुपसर्गाद्वा || अनुपसर्गात्क्रमेरात्मनेपदं वा स्यात् । क्रामति । क्रमते । उपपराभ्यामित्यस्य नियमार्थत्वाद्वृन्त्यादिम्त्रमनुपसर्गविषयकमेव । तेन वृप्त्यादौ नायं विकल्पः । तस्मादप्राप्तविभाषैवेयम् ॥ अपन्हवे ज्ञः || अपलापे वर्त्तमानाज्जानातेरात्मनेपदं स्यात् । शतमपजानीते । अपलपतीत्यर्थः ॥ अकर्मकाच्च ॥ अकर्मकाज्जानातेरात्मनेपदं स्यात् । सर्पिघो जानीते । सर्पिषा उपायेन प्रवर्त्ततइत्यर्थः । ज्ञोविदर्थस्यति करणे षष्ठी । अकर्मकादित्यस्य स्थाने सकरणादित्येव तु नोक्तम् । स्वरण पुत्रं जानातीत्यत्रातिव्याप्तेः ॥ 1 सम्प्रतिभ्यामनाध्याने || आभ्यां जानातेरात्मनेपदं स्याearera | शतं सञ्जानीते । अवेक्षतइत्यर्थः । शतम्प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्याने किम् । मातुः सञ्जानाति । उत्कण्ठापूर्व स्मरतीत्यर्थः । अधीगर्थेति कर्मणि षष्ठी । ननु तत्र शेष इत्यनुवर्त्तते । तेनात्र कर्मणः शेषत्वेन विवक्षितत्त्वादकर्मकाच्चेति पूर्वेण प्राप्नोति । अत्राहुः । अनाध्यानइति विभज्यते । स चोभयोर्योगयोः शेषः तेनाध्याने पूर्वेणापि न भवतीति ॥
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy