SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४७४ शब्दकौस्तुमः । १०अ] इति भारविः । कर्षभिप्रायत्त्वाविवक्षायां भविष्यति । के चि. तु अपनयने वर्तमानादनेनात्मनेपदं विधीयते । इह तु करोत्यर्थे प्राप्तयर्थे वावर्त्तते । धातूनामनेकार्थत्त्वादित्याहुः ॥ .. वृत्तिसर्ग तायनेषुक्रमः ॥ क्रमआत्मनेपदं स्यादप्रतिबन्धोत्साहस्फीततासु । वृत्तौ । ऋच्यस्य क्रमते बुद्धिः । न प्रतिहन्यतइ. त्यर्थः । सर्गे । व्याकरणाध्ययनाय क्रमते । उत्सहतइत्यर्थः । सृजतेरुत्साहार्थतायेनेन्द्रलोकावजयाय सृष्ट इत्यादी प्रसिद्धा । तायने । क्रमन्तेस्मिन् शास्त्राणि । स्फीतीभवन्तीत्यर्थः । तायसन्तानपालनयोरत्यस्माल्ल्युटि तायनमिति रूपम् ॥ - उपपराम्याम् ॥ वृत्त्यादिषूपपराभ्यामेव क्रमेरात्मनेपदं स्यान तूपसर्गान्तरपूर्वात् । उपक्रमते । आभ्यामेवेति नियमाअह । सङ्क्रामति । वृत्त्यादिष्वित्येव । नेह । उपकामति पराक्रामति ॥ : आङ उद्गमने ॥ आपत्क्रिमेरुद्गपने वर्तमानादात्मनेपदं स्यात् । आक्रमते आदित्यः । उदयतइत्यर्थः । ज्योतिरुगमन इति वाच्यम् । नेह, आक्रामति धूमो हऱ्यातलात् । भाष्ये तु हयेतलमिति पठ्यते । तत्रोद्गमनपूर्विकायां व्याप्तौ ऋमिष्टव्यः न तूगमनमात्रे अकर्मकतापत्तेः । कथन्तर्हि नभः समाजामति चन्द्रमाः क्रमादिति । उच्यते । व्याप्ताविह क्रमिवर्चते न तूगमने ॥ - वे पादविहरणे ॥ विपूर्वात्तमः पादविहरणे वर्तमानादात्मनेपदं स्यात् । साधु विक्रमते वाजी । पादविहरणं पादविक्षेपः । यद्यपि क्रमिस्तत्रैवार्थे पठ्यते तथापि धातूनामनेकार्थवात्सूत्रेर्थोपादानम् । तेनेह न विक्रामत्यजिनसन्धिः, द्विधाभवति स्फुटतीत्यर्थः॥
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy