SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १ पा. ५ आ. शब्दकौस्तुभः । १९ यमस्य त्वदुक्तव्यवस्था सिद्धेयत् । नियमार्थत्वमेव तु दुरुपपादम् । विध्यर्थताया एवौचित्यात् । तथाहि । अस्ति ताव - कृत्रिमा कृत्रिमयोः कृत्रिमे काय्य सम्प्रत्यय इति परिभाषा । सा च न्यायमूला | संज्ञासूत्रेण संज्ञिविशेषे नियम्यमानो हि संज्ञाशब्दः कथं तदितरं बोधयेत् । एवं स्थिते बहुगणयोरिह ग्रहणाभावे संख्याप्रदेशेषु ग्रहणमेव न स्यात् । अकृत्रिमत्वात् । तस्मात्स्वसङ्ग्रहार्थमेव बहुगणग्रहणं न तु भूर्यादिनिवृत्त्यर्थमिति । अत्राहुः | संज्ञिविशेषे क्रियमाणः संज्ञानियमो यदि सामान्यापेक्षस्तदा युक्ताऽकृत्रिमस्य व्यावृत्तिः । विशेषपरत्वे तु सजातीयं कृत्रिमान्तरमेव नियमेन व्यावर्येत न त्वत्रिममपि । तदेतदुच्यते । उभयगतिरिह शास्त्रे भवतीति । कृत्रिमा कृत्रिमयोरुभ योरपि ग्रहणमित्यर्थः । अस्ति च संख्याप्रदेशे पूभयग्रहणे लिङ्गं संख्याया अतिशदन्तायाः कन्निति सूत्रे शदन्तपर्युदासः । न हि कृत्रिमा संख्या शदन्तास्तीति दिक् । तेन पञ्चधा पञ्चकृत्व इत्यादि सिद्धं भवति । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति तथापि वतुडत्योः केवलयोः संज्ञायाः प्रयोजनाभावात्सामर्थ्यात्तदन्तग्रहणम् । तद्धितविधौ हि ङयाप्प्रातिपदिकादित्यधिकृतं न च केवलस्य प्रत्ययस्य प्रातिपदिकत्वमस्तीति बोध्यम् । एतच्च सूत्रं भाष्ये प्रत्याख्यातम् । बहुपूगगणसङ्घस्य तिथुक् । वतोरियुक् । षट्कतिकतिपयचतुरां गिति सूत्रैईटि परे आगमा विधीयमाना बहुप्रभृतीनां डटो निर्वाहकं संख्यात्वं ज्ञापयन्तीति किमनेन सूत्रेण । ननु बहुपूगगणसङ्घेत्यादौ विशेषाश्रगणात्संघवैपुल्यवाचिनोरपि बहुगण - शब्दयोः संख्याकार्यं स्यादिति चेन्न । अनियतसंख्यावाचिनोरप्येतयोः संख्याकार्यं भवतीत्येतावन्मात्रज्ञापनेन चरितार्थ
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy