SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १९० शब्दकौस्तुभः । [ १ अ त्यर्थः । सामानाधिकरण्यस्त्रीत्वे च स्वार्थिकत्वादातिशायनि कस्य स्तो न तु नदीतरे, अतो नोक्तदोषः । नन्वातिशायनिकमकरणएव तादी घ इति पितौ घ इति वा क्रियतां लाघवादिति चेन्न । प्रकरणोत्कर्षेणेह संज्ञाप्रकरणस्यान्यपि तरबस्तीति ज्ञापनार्थत्वात् । स चानिर्दिष्टार्थत्वात्स्वार्थे भवति । तेनायाच्तरं लोपश्च बलवत्तर इत्यादि सिद्धम् । केचित्तु सामान्यापेक्षं ज्ञापकमाश्रित्य ईयसुनोपि स्वार्थिकतामाहुः । तेनाहोमहीयस्तत्र साहसिक्यमित्यादि प्रयोगाः समर्थिता भवति ॥ बहुगणवतुडति संख्या ॥ एते संख्यासंज्ञाः स्युः । बहुकृत्वः संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । व हुधा, संख्याया विधार्थे धा । बहुभिः क्रीतो बहुकः, संख्याया अतिशदन्तायाः कन् । बहुशः । बव्हल्पार्थाच्छस्कारकादित्यनुवर्त्तमाने संख्यैकवचनाच्च वीप्सायामिति शस् । गणकृत्वः गणधा गणकः गणशः । तावत्कृत्वः तावद्धा तायत्कः तावच्छः । यत्तदेतेभ्यः परिमाणं वतुप् । आ सर्वनाम्नः, शेषं प्राग्वत् । कतिकृत्वः कतिकःकतिधा कतिशः । किमः ' संख्यापरिमाणे डति च । शेषं प्राग्वत् । स्यादेतत् । वैपुल्येपि बहुशब्दो वर्त्तते । बहुर्हिमवानिति, सङ्घे च गणशब्शः, भिक्षुकाणां गण इति । समवायश्च यो गण इत्यमरः । तथा च सङ्घवैपुल्यवाचिनोरप्यनयोः संख्या संज्ञा स्यादिति चेन्न । संख्यायते ऽनयेत्यन्वर्थसंज्ञाविज्ञानात् । तस्मात्संख्यावाचिनोरेव बहुगणशब्दयोरिह ग्रहणं तच्च नियमार्थम् । अनियतवहुत्ववाचिनां मध्ये ऽनयोरेव संख्या संज्ञा न तु भूर्यादीनामि 1 ति । तेन बहुविषययोर्चेकयोर्नियत बहुत्ववाचिनां ज्यादीनां च न व्यावृत्तिः । ननु नियमार्थत्वे सिद्धे सजातीयापेक्षत्वान्नि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy