________________
१ पा. ५ आ. शब्दकौस्तुभः । स्य मुख्यसमकक्षत्वात् । ज्ञापकाच्च । यदयमिट ईटीति सिचो लोपं शास्ति तज्ज्ञापयति । व्यवदेशिवदेकस्मिन्निति । न बन्य. थेट लभ्यते । वल्रूपत्वेपि वलादित्वविरहात् । तथा दीर्घ इणः कितीत्यादीन्यपि ज्ञापकानि । न हि व्यपदेशिवद्भावं विना इणोभ्यासो लभ्यतइति दिक् । यत्तूक्तं कैयटेन । अर्थवता व्यपदेशिवद्भावात्करुन इत्यादौ तशब्दाकारस्यानर्थकत्वेन तत्र टिसं. ज्ञा सिद्धयआदिवद्भावो वचनेनैव साधनीय इति । अत्रेदं वक्तव्यम् । अर्थवता व्यपदेशिवद्भाव इति तावन्नेयं परिभाषा तस्या विध्यंगत्वात्। व्यपदेशिवद्भावस्तु लौकिक इत्युक्ततयातं प्रत्यंगत्वायोगात् । किन्तु शास्त्रे व्यपदेशिवद्भावयोजनाय शब्दार्थसमृदायमाश्रित्य तस्यैकदेशः शब्द इति व्युत्पादयितुमर्थवत्तापेक्षितेति परं तस्याशयः । अत एव षष्ठे निजौ चत्वार एकाच इत्येते. पु व्युत्पादनावसरे भाष्यकैयटयोरनर्थकेनापि व्यपदेशिवद्भावः स्वीकृतो लोक इव शास्त्रे ऽप्यनर्थकस्य व्यपदेशिवद्भावसम्भवात् । तस्मादर्थवतेति प्रायोवादमात्रं सूत्रप्रत्याख्यानं तु सम्यगे. वेति दिक् ॥
तरतमपौ पः॥ एतौ घसंज्ञा स्तः । कुमारितरा। कुमारितमा । घरूपेति इस्वः । नद्यास्तरो नदीतर इत्यत्र तु न भवति । तमपा साहचर्येण प्रत्ययस्यैव तरपो ग्रहणात् । यद्वा तरविति रूपं संज्ञाप्रवृत्तावाश्रितं तच्च परिनिष्ठिते प्रयोगे कापि नास्तीत्यौपदेशिकं गृह्यते । तच्च तरप्पत्ययस्यैवास्ति । अपि च प्रतिपदोक्तत्वमपीह सुलभम् । तेनावयवशो व्युत्पादिते नदीतरे नातिप्रसङ्गः । किञ्च समानाधिकरणे स्त्रीलिङ्गे परे ह्रस्वत्वं विधीयते । अन्यथा महिषीव रूपं महिषीरूपमित्यत्रापि स्यात् । सुप् सुपेति समासः । रूपमाकृतिः, महिषीवेयमाकृतिरि