________________
१८८ शब्दकौस्तुभः। [१ अ० क्षेपप्रयुक्तस्य गौरवस्य प्रामाणिकत्वात् । लोके. ह्ययमादिरंतोवेत्युतेऽवशिष्टमपि किंचिदस्तीति नियमेन प्रतीयन्ति। पदानियतोपस्थितिश्च शक्तिसाध्या । अनुभवमपलप्यैकदेशमात्र शक्तिकल्पने तु श्वशुरादिपदानामपि लाघवाद्भार्यात्वमात्रं पितृत्वमात्रं तद्घ टकपुंस्त्वमानं या शक्यतावच्छेदकं स्यादिति विशिष्टविषयकशक्त्युच्छेदेन सकलशिष्टव्यवहारव्याकोपः स्यादिति । नन्वेवमपि व्यपदेशिवद्वचनं कर्तव्यमेव, इयाय आरेत्यादौ धात्ववयवत्वं प्रा. थम्यमेकान्त्वं चाश्रित्य द्वित्वं यथा स्यात् । एकाच इति हि बहुव्रीहिरिति पक्ष्यते।न चेणो वृद्धयायादेशयोरत्तैश्च वृद्धौरपरत्वे च कृते आय आर इत्यनयोरेकाच्त्वं पचादेरिव मुख्यमेवास्तीति वाच्यम् । द्विवेचनेचीति रूपातिदेशेन इ ऋ अनयोरेव द्विरुतः। किञ्च यः पञ्चमलकारे स देवान् यक्षदिषितो यजीयानीत्यादौ सिब्बहुलं लेटीनि सिप् । तस्य पत्त्वं व्यपदेशिवद्भावेनैव साध्यं, प्रत्ययस्य यः सकारस्तस्य षत्वमिति सिद्धान्तात् । तस्माद्यपदेशिवदेकस्मिनित्येव सूत्र्यता किं प्रकृतसूत्रेण । व्यपदेशो नाम विशिष्टो मुख्यो ऽपदेशो व्यवहार एकाच इत्यादिः सोस्यास्तीति व्यपदेशी पचिप्रभृतिस्तस्मिन्निवासहायपि कार्य स्यादित्यर्थः । अत्राह भाष्यकारः । अवचनाल्लोकविज्ञानात्सिमिति। वचननिरपेक्षाल्लोकव्यवहारादेव व्यपदेशिवद्भावसिद्धराअन्तवादति व्यपदेशिवदिति चोभयमपि न सूत्रयितव्यमित्यर्थः। अस्ति हि लोके निरूढोयं व्यवहारोऽयमेव मे ज्येष्ठः पुत्रोयमेवमध्यमोऽयमेव कनिष्ठ इति। तथा अस्तायामसोष्यमाणायां च प्रथमगर्भे. णहतेति व्यवहरन्ति । तथा पूर्वमनागतोऽग्रेऽनाजिगमिषुश्वाह इदं मे प्रथममागमनमिति । ननु सर्वे इमे गौणा व्यवहारास्तत्कथं मुख्य चरितार्थ शास्त्रं गौणे प्रवर्तेतोत चेन्न । निरूढतरतया गौणस्याप्ग