SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १ पा. ५ आ. शब्दकौस्तुभः । छः प्रसज्येत । ननु वृद्धिर्यस्याचामादिरिति सूत्रे आदिग्रहणस्यापीदमेव व्यावर्त्त्यम् । तत्सामर्थ्यादेव समासन्नयनशब्दे वृद्धसंज्ञा न भविष्यतीति चेन्न । यदि हि वृद्धसंज्ञासूत्रे आदिग्रहणसामर्थ्यादनातिदेशिकस्य मुख्यस्यैवादेर्ग्रहणं तर्हि जानातीति ज्ञा ब्राह्मणीत्यादिरसहायोपि वृद्धो न स्यात् । ततश्च ज्ञाया अयं ज्ञीय इत्यादि न सिद्धयेत् । असति हि प्रकृतसूत्रस्थैकग्रहणे यत्रा - दिव्यपदेशो मुख्यो नास्ति असहाये मध्ये अन्ते च स सर्वोप्य - विशेषादतिदेशस्य विषयः स्यात् । यदि त्वतिदेशसामर्थ्याज्ज्ञाशब्दे वृद्धत्वं तर्ह्यविशेषात्सभासन्नयनेपि स्यात् । वृद्धसंज्ञायामादिग्रहणं तर्हि व्यर्थमेवेति चेत् । हन्तैवमतिदेशस्यादि। ग्रहणस्य च सामर्थ्यात्सर्वत्र विकल्पापत्तिः । इहैकग्रहणे कृते त्वन्त्यमध्ययोर्व्यावृत्त्या वृद्धसंज्ञायामादिग्रहणं सार्थकमिति दिक् । यत्तु न्यासकृतोक्तम् । अतिदेशसूत्रे एकग्रहणाभावे वृद्धसंज्ञासूत्रस्थमादिग्रहणमनातिदेशिकप्रतिपत्त्यर्थं सदसहायानां ज्ञादीनामेव वृद्धसंज्ञां वारयेन्न तु सभासन्नयनस्य, सन्नयनेत्येतदन्ततांश्चतुरोऽचो ऽपेक्ष्यानातिदेशिकस्यादित्वस्य तत्र सत्त्वादिति । तच्चिन्त्यम् । परस्मिन्सति यस्मात्पूर्वो नास्ति स आदिरिति सिद्धान्तरीत्या मध्यस्थेप्यादित्वविरहात् । इयानेव हि विशेषः । असहाये सत्यन्त विशेषणविरहाद्विशिष्टाभावः, मध्यस्थे तु वि शेष्याभावाद्विशिष्ट।भाव इति । वार्तिकका रस्तु लाघवादपूर्वत्वमात्रमादिशब्दस्य प्रवृत्तिनिमित्तमनुत्तरत्वमात्रं चान्तशब्दस्य न तु सत्यन्यस्मिन्नित्यपि विशेषणं, गौरवात् । तथा चासहायेपि मुख्ययोरेवाद्यन्तयोः सम्भव इति मन्वानः सूत्रमेतत्प्रत्याचख्यौ । आह च । अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन्निति । भाष्यकारस्तु नैतन्मेने । सत्यन्यस्मिन्निति विशेषणम् १८७
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy