SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८६ शब्दकौस्तुभः । [१ अ० कथमिति । अत्रोच्यते । पित्करणसामर्यादुपदेशे एजन्तत्वाभावेप्यात्वप्रवृत्तिः । वस्तुतस्तूपदेशग्रहणं भाष्यकारो न मन्यते । तथा च तत्र वक्ष्यति । उपदेशग्रहणं न करिष्यते । यद्यपदेशग्रहणं न क्रियते चेता स्तोतेत्यत्रापि प्राप्नोति । अत्राप्याचार्यप्रवृत्तिापयति न परनिमित्तस्यैच आत्वं भवतीति । यदयं क्रीङ्जीनां णावेच आत्वं शास्ति । नैतदस्ति ज्ञापकं नियमार्थमेतस्यात् क्रीजीनां णावेवेति । यत्तार्ह मीनातिमिनोतिदीङ ल्यपि चेत्यत्रैज्ग्रहणमनुवर्त्तयतीति । ननु प्रणिदापयतीत्यत्राप्यदाबिति प्रतिषेधः स्यादिति चेन्न । यथोदेशपक्षेन्तरङ्गत्वादावस्थायामेव घुसंज्ञाया निर्दृतत्वात् । कार्यकालपक्षे तु घुसंज्ञाया णत्वसमानदेशतया पुकं प्रति णत्वघुसंज्ञयोरसिद्धत्वेन प्रागेव पुक् ततो घुसंज्ञा न स्यादिति दोषः प्रसजत्येव । अत एव भाष्ये द्वेधा समाहितम् । दाधाध्वपिदिति वक्ष्यामि । यद्वा वान्तावेतौ धातू सूत्रमपि बान्तम् । चर्बेन सर्वत्र पकारो निर्दिष्टः । अतो दापयतीत्यत्र नासौ निषेधः । तस्यापित्त्वादबान्तत्वाच्चेति ॥ ___ आद्यन्तवदेकस्मिन् ॥ असहाये आदाविधान्तइव कार्याणि स्युः । औपगवः । यथा तव्यादीनां प्रत्ययाधुदात्तत्वं प्रवर्तते । एवमिहाणोपि । आभ्याम् । यथा वृक्षाभ्यामित्यादौ सुपि चेति दीर्घत्वं भवति एवमिहापि । इङ् गतौ दिवादिः। एयम् । अचोयदिति अजन्ताद्धातोर्विधीयमानो यत्प्रत्ययो यथा चेयजेयमित्यादौ भवति तथेहापि । इणस्तु एतिस्त्विति क्यपीत्यमित्येव रूपं न तु एयमिति । एकस्मिन्निति किम् । सभासन्नयने भवः साभासन्नयनः । अत्र ह्याकारस्यादित्त्वे सति तमेवाश्रित्य सभासन्नयनशब्दस्य वृद्धत्त्वं स्यात् । ततश्चाणं बाधित्त्वा वृद्धाच्छ इति
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy