________________
१ पा. ५ आ. शब्दकौस्तुभः ।
१८५ आत्वायोगादिति चेन्न । अनुबन्धा अनेकान्ता इति पक्षे श्रूयमाणस्यापि पकारस्य काकादिवदनवयवत्वेन धातोरेजन्तत्वानपाये आत्वप्रवृत्तेः । एकान्ता अनुबन्धा इति पक्षेपि भवत्येवात्वम् । नानुबन्धकृतमनेजन्तत्व मिति सिद्धान्तात् । अत्र चोदीचां माङो व्यतीहारइति कृतात्वस्य मेडो निर्देशो ज्ञापकः । न च माःमानइत्यस्यैवायं निर्देशो व्यतिमिमीतइत्यादौ तस्यापि कदा चिव्यतीहारे वृत्तिसम्भवादिति वाच्यम् । अपूर्वकालार्थस्य क्त्वाप्रत्ययस्य माङ्मानइत्यस्मादनभियानात् । अत्र च भाष्योक्तेरेव प्रमाणत्वादित्याहुः । एवं च मेङ इत्येव पठनीये माङो व्यती. हारइति गुरुकरणं नानुवन्धकृतमनेजन्तत्त्वमिति ज्ञापनार्थमेव । भाष्यकारास्तु नायं दैप किन्तु दिवादिपु दायशोधनइत्येव पठिष्यतइत्याहुः । न च स्वरे भेदः । दायतीत्यादेरुभयथाप्याधुदात्तत्वात् । ननु ताच्छीलिके चानशि दायमान इत्यत्र स्वरे भेदः । श्यनि धातोरायुदात्तत्वं शपि तु चानशोन्तोदात्तत्वमिति चेन्न । उभयथाप्यन्तोदात्तत्वानपायात् । न च श्यन्स्वरस्य सतिशिष्टत्वेन पावल्यमिति वाच्यम् । अन्यत्र विकरणेभ्य इति पर्युदासात् । आत्ममानेखश्चेत्यत्रत्यभाष्यकैयटबलेन खशीव चानश्यप्यन्तोदात्ततया निर्णयात् । स्थानिवत्सूत्रीयः कैयटग्रन्थ स्तु खशमूत्रस्थभाष्यस्वोक्तिभ्यां विरोधात्मामादिक इति वक्ष्यते । ध्यायत्यादयस्तु दिवादिष्वेवादन्तत्वेन न पठिताः गणकार्यमनित्यमिति ज्ञापयितुम् । तेन न विश्वसेदविश्वस्तं पथिक वनिताः प्रत्यवादाश्वसन्त्य इत्यादि सिद्धम् । यत्तु भाष्ये एकान्तत्वपक्षेपि न दोप इत्युपक्रम्य पकारलोपे कृते भविष्यात, दाप्त्वं तु भूतपूर्वमनुबन्धमाश्रित्य व्युत्पादनीयमिति सिद्धान्तितम् । तत्थं प्रत्यवतिष्ठन्ते । सत्यप्ये जन्तले उपदेशे एजन्तत्वं
२४