________________
१८४ शब्दकौस्तुभः। [१ ० रिति वचनेनैव तत्सिद्धेः । भाष्ये त्वेतद्वचनप्रत्याख्यानायैज्विषये आत्वं सिद्धान्तितमित्यन्यदेतत् । इदं त्ववशिष्यते । भाष्यवार्तिकोभयमतेपि उपादास्तास्यस्वरः शिक्षकस्येत्यत्र स्थाबोरितीत्वं प्राप्तं, तच्च भाष्ये सन्निपातपरिभाषया प. रित्तम् । उप दी म त इति स्थिते एविषये प्रवर्त्तमानमात्वं सिचोकित्त्वमुपजीवति । यदि चात्र घुसंज्ञा स्यात्तर्हि स्थाध्वोरिच्चेति सिचः कित्वं स्यादतोकित्वमुपजीव्य प्रवृत्त आकारः कित्ववर्तिकां घुसंज्ञा न प्रवर्त्तयत्येवेति । वार्तिककृता तु दी. ङः प्रतिषेधः स्थायोरित्वे इति वचनमेव कृतम् । उभयमतेपि दीडस्तृजादावात्वे कृते प्रणिदातेत्यादौ नेर्गदेति णत्वं भवति । अत एव वार्तिककृता दीङः प्रतिषेध इत्येवं नोक्तं किन्तु स्था. घ्वोरित्वे इति विषयविशेषो निर्दिष्टः । सूत्रमते तु न भाव्यं णवेनेति स्पष्टमेव । किञ्च भाष्यवार्तिकयोने केवलं सूत्रकृता सह विरोधः किन्तु परस्परेणापि । तथाहि । भाष्यमते प्रणिदीयते प्रणिदीन इत्यादावपि नित्यं णत्वं गत्वविधौ प्रकृतिग्रहणात् । वा. तिकमते तु वैकल्पिकम् । एजन्तानामेव प्रकृतित्वाभ्युपगमेने दन्तस्याप्रकृतित्वात् । अन्यथोपदिदीषतइत्यत्रेस्भावापत्तेः । तदेवं प्रणिदातेत्यादौ सूत्रकृता सह द्वयोर्विरोधः । प्रणिदीन इत्यादौ तु भाष्यकृता सहेतरयोर्विरोधो दुष्परिहर इति । अत्रेदं वक्तव्यम् । यथोत्तरं मुनीनां प्रामाण्यमिति सिद्धान्ताद्भाप्योक्तरीत्या सर्वत्र दीडि परे नेनित्यं णत्वमितिस्थिते मूत्रवातिकमतेपि शेषे विभाषेति व्यवस्थितविभाषामाश्रित्य भाष्याविरोधः सम्पादनीयः । एकवाक्यतयैव सर्वनिर्वाहसम्भवे मतभेदकल्पनस्यानाश्रयणीयत्वादिति । नन्वदाविति प्रतिषेधे दाप्लवनइत्यस्यैव ग्रहणं युक्तम्, न तु दैपः । पकारे श्रूयमाणे