SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १ पा. ५ आ. शब्दकौस्तुभः । १८३ धारयतीत्यत्राप्यतिप्रसङ्ग इति चेन्न । गदादीनां य उपसर्गस्तत्स्थानिमित्तादुत्तरस्य तानेव गदादीन् प्रत्युपसर्गस्य नेरिति व्याख्यानात् । दारयतिधारयत्यवयवयोस्तु दाधारूपयोरनर्थकत्वान्न तं प्रत्युपसर्गत्वम् । यत्क्रियायुक्ताः पादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति वक्ष्यमाणत्वात् । न चैवं प्रणिदापयाति प्रणिधापयतीत्यत्रापि णत्वं न स्यादिति वाच्यम् । तत्र पुगागमारपूर्व दा धा इत्यवस्थायां घुसंज्ञाप्रवृत्तौ पुग्विशिष्टस्यापि घुग्रहणेन ग्रहणात् । अनागमकानां सागमका आदेशा इति पक्षे तु स्थानिवद्भावेन घुसंज्ञाप्रवृत्तेः । नन्वनान्तर्यमेवैतयोरान्तर्य सम्प्रयोगो वा । नष्टाश्वदग्धस्थवदिति स्थानेन्तरतमसूत्रस्थभाष्यरीत्या दारयत्यादेराप दापयत्यादिसाम्यमेव । निपन्नस्याणो रपरत्वाभ्युपगमेन रेफपुकोरविशेषादिति चेत् । सत्यम् । सिद्धन्तु प्रसङ्गे रपरत्वादित्युरणपरसूत्रस्थवार्तिकरीत्या समाधानं कृतम् । उक्तभाष्यरीत्या तु प्रसक्तो दोषः प्रागु. क्तसूत्रकारमतमाश्रित्योद्धर्त्तव्यः । न हि दृधृइत्यनयोरनुकरणे आत्वं लभ्यतइति दिक् । इदं त्ववधेयम् । प्रणिदापयतीत्यः त्राप्युपसर्गयोः प्रकृत्यविशेषणत्वे सत्येव नेर्गदेति नित्यं णत्वं ण्यर्थविशेषकत्वे तु घुसंज्ञकं प्रत्यनुपसर्गत्वाच्छेषे विभाषेति विकल्प एव न तु नित्यं णत्वमिति । स्यादेतत् । उपदिदीपतइत्यत्र सनिमीमेतीस्भावः स्यात् । वार्तिककृता घुसंज्ञायां प्रकृतिग्रहणात् । सूत्रकारभाष्यकारयोस्तु नासौ दोषः । सूत्रकृता दीडोननुकृतत्वात् । भाष्यमते णत्वे प्रकृतिग्रहणोपि घुसंज्ञायान्तद्विरहादिति चेत् । सत्यम् । वार्तिकमतेपि नेयं दापकृतिः । एजन्तानामात्वविधानाभ्युपगमात् । न चैवमादन्तत्वनिबन्धनयुच्प्रत्ययासिद्धिः । तत्राकारान्तलक्षणप्रत्ययविधि
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy