________________
२ पा. १ आ. शब्दकौस्तुमः ।
३९३ पूङः क्त्वा च ॥ पूङः परे सेट्क्त्वानिष्ठे कितौ न स्तः । नित्योयं योगः । विभाषयोर्मध्ये पाठात् । पवितः । पवितवान् । पवित्वा । क्लिशः क्त्वानिष्ठयोः, पूङश्वेतीद् । नक्त्वासेडिति सिद्धे क्त्वाग्रहणं प्रागुक्तरीत्या योगविभागेन तत्पत्याख्यानार्थम् । सूत्ररीत्या तूत्तरार्थम् । तथा च भारद्वाजीयाः पठन्ति, नित्यमकित्वामिडायोः क्त्वाग्रहणमुत्तरार्थमिति । कात्यायनस्तु, इह सेडिति निवर्त्य विकल्पं चानुवर्त्य अनिट एव कित्वं विकल्प्य किन्त्वाभावे पवितः पवित्वेत्यादिसिद्धौ किन्त्व. पक्षे प्रयुकः कितीतीनिषेधात् पूतः पूतवानित्यादिसिद्धौ सत्यां पूङश्चति सूत्रं प्रत्याचख्यौ उत्तरसूत्रे वाग्रहणं च । किं त्वस्मिन्पक्षे उत्तरत्र से ग्रहणं मण्डूकप्लुत्यानुवर्तनीयमिति क्लेशः । पूर्वकृतं क्त्वाप्रत्याख्यानं त्विदानी न सङ्गच्छते मृडमृदेति ज्ञापकाद्वा नक्त्वासेडित्यर्थः साधनीयः । न च खपिच्छिग्रहणादनिदकस्याप्यकि-त्वं स्यादिति वाच्यम् । तस्य सनर्थत्वात् । अन्यथा क्त्वः किन्त्वस्य वैयपित्तश्चेति दिक् । इदं त्ववधेयम् । पूङः क्त्वाचेत्यत्र सानुबन्धनिर्देशः स्पष्टार्थो न तु पूओ निवृत्यर्थः । तत्रेटो दुर्लभत्वात् । इड्विधौ पूङ एव निदिष्टत्वात् । नापि यलुनिवृत्त्यर्थः । इड्विधावनुबन्धनिर्देशेन यङ्लुकि पूडोपीडभावात् । यत्तु यलुक्यार्धधातुकस्येडितीडस्त्येव । न च श्युकः कितीतीनिषेधः । तत्रैकाच इत्यनुवर्तनात् । उक्तं हि यविधौ वार्तिककृता, एकाचश्चदुपग्रहादिति । एवं यलुनिवृत्त्यर्थमनुबन्धोच्चारणमिति मतम् । अस्मिन् पक्षे पोपुवितः पोपुवितवानिति निष्ठायां भवति क्त्वायां तु गुणे पोपवित्वेत्येव । नक्त्वासेडिति किन्त्वप्रतिषेधः । न च क्त्वाग्रहणसामर्थ्यात्तस्यापि यङ्लुकि प्रतिषेधः। तस्योत्तरा