SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३४४ शब्दुकौस्तुभः । [ १ अ० ति वाच्यम् । अलोन्त्यपरिभाषयेष्टसिद्धेः । स्यादेतत् । नानर्थ:केलोन्त्यविधिरनभ्यासविकारेष्विति निषेधः प्राप्नोति । इह च बिभर्त्तीत्यत्र भृञामित् अन्त्यस्य यथा स्यादित्येतदर्थमनभ्यासविकारेष्वित्युक्तम् । विकारो नाम वर्णात्मक आदेशः । अत एव देहीत्यत्र लोपः सर्वादेश एव भवतीति । अत्रोच्यते । नता-वदेषा परिभाषा सूत्रकृतः सम्मता । तस्यलोप इति सूत्रे ञिटुडूनां सर्वलोपार्थं तस्य ग्रहणात् । नापि भाष्यकारस्य सम्मता । एतत्प्रयोजिनानामन्यथोपपत्तेर्भाष्ये उक्तत्वात् । तथाहि । अव्यक्तानुकरणस्येति तावदन्तादेशो न भवति । नाम्रेडितस्यान्त्यस्य तुवेति ज्ञापकात् । इतरथा ह्याम्रेडितस्य वेत्येव ब्रूयात् । घ्वसोरेद्धावित्य - त्रापि लोपोयीति प्रकृते पुनर्लेपग्रहणसामर्थ्यात्सर्वादेशः । तथा चेत्थं सूत्रन्यासः । घोरभ्यासस्य लोपः । लोपशब्दान्तरस्यानुवृत्त्या सर्वलोपः स्यात् । अस्तेश्चैत् । अस्तेर्घोश्चैद्भवति हाविति । अथवा लोपश् इतिच्छेदः । संज्ञायां कृतो ऽनुबन्धः संज्ञिनि फलति यथा ङमृटि । भाष्ये तु द्विशकारको निर्देश इत्युक्तम् । तत्र लोप इति भिन्नं पदम् । श् इत्यस्य चोपदेशएवेत्संज्ञा तत्फलं तु प्रयोगे । सर्वत्रानुबन्धानां काकादिवदनवयवीभूयैव व्यावर्त्तकत्वादिति भावः 1 अस्मि अपि पक्षे झाले परे यः संयोगस्तदादित्वात्सोर्लोपे एकशकारक एव पाठः सुवचः । स्पष्टार्थमन उपधालोपिन इत्यादाव - कारस्येवेहापि सकारस्य लोपो मास्त्विति तु भाष्याश यः । आभ्यामित्यादौ हलि लोप इति सूत्रेणाककारस्येदम इदो विधीयमानो लोपोपि तर्ह्यन्त्यस्य स्या दिति चे. न 1 अनायक इति सूत्रादनित्यनुवर्त्य तस्य हलीति सप्तम्या षष्ठीं प्रकल्प्य अन एव लोपविधानात् । तथा च त -
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy