________________
२०२ शब्दकौस्तुभः ।
[१ अ० सिल् त्रल् अकच्च सिद्धयति । न च तसिलादिविधौ प्रातिपदिकादित्यनुवृत्तेः सर्वनाम्ना च तद्विशेषणे तदन्तविधिर्भविष्य तीति वाच्यम् । समासप्रत्ययविधौ न तदन्तविधिरिति निषेधात् । न चैवमतिसर्वायेत्यादावतिप्रसङ्गः । उपसर्जनपर्युदासस्योक्तत्वात् । अत एव परमसर्वस्मा इत्यादौ स्मायादयो भवंत्येप। स्यादेतत् । असः अतस्मिन् अनेष इत्यादावप्यत्वसत्वस्मिनादीनि न स्युः। अतिसर्वइत्यत्रेवोपसर्जनत्वात् । तथा चाब्राह्मणइत्यादेाह्मणभिन्न इत्यादिक्रमेण पूर्वपदार्थप्राधान्येन विवरणं कुर्वन्ति । सत्यम् । वैयाकरणमते नसमासस्योत्तरपदार्थप्राधान्यमेव । नसूत्रे भाष्यकारेण तथैव सिद्धांतितत्वात् । तथाहि । आरोपितत्वं नअर्थः।तथा च मायामनुष्यमायामृगव्याजनिशाकरकपटब्राह्मणादिशब्देभ्य इव आरोपितो मिथ्याभूतोयं ब्राह्मण इत्येवं शाब्दबोधपर्यवसाने ब्राह्मणभिन्न इत्यादिकमार्थिकार्थविवरण न तु शाब्दोयमर्थः । अत एव एतत्तदोरिति सूत्रेऽनङ्समासइति सार्थकम् । अत एव चौत्सर्गिकी तत्पुरुषस्योत्तरपदार्थप्रधानतापि निर्वहतीति दिक् । ननु यदीह तदन्तविधिरिष्टस्तार्ह भाष्यविरोधः । तत्र हि संज्ञोपसर्जनप्रतिषेध इति वार्तिकस्य प्रत्याख्यानमुपक्रम्यार्थद्वारकं विभक्तिविशेषणमाश्रित्यातिप्रसंग उद्धृतः । सर्वनामार्थसमवेतसंख्याकारकायभिधायिनो डेः स्मै स्यादित्यादिनोक्तरीत्या तदंतविधौ सति त्वतिसर्वायत्यादौ समुदायस्य सर्वनामतयार्थद्वारकविभक्तियोगाश्रयणेपि स्मायादिप्रसंगस्तदवस्थ एव स्यादिति चेत् । सत्यम् । अत एवापरितोषाद्भाध्ये अथवा महतीयं संज्ञा क्रियतइति पक्षान्तरमुपन्यस्तामति गृहाण । ननु यदीयमन्वर्थसंज्ञा तर्हि पूर्वपदात्संज्ञायामग इति णत्वं स्यादिति चेत् । सत्यम् । अत एव निपातनाण्णत्वाभा