________________
शब्दकौस्तुभः। [१ अ० द्याश्रयणेन वृद्धिशब्देन विहिताया वृद्धर्यनिमित्तं तत्रैव पुंवद्भावप्रतिषेधात् । वृद्धिशब्देन च विधौ कृत्स्ना दृद्धिः प्रतीयतइत्याशयेनैवोक्तं भाष्ये । यत्कृत्स्नाया वृद्धेनिमित्तमिति । न च वैयाकरणभार्ये तथा सौवश्वभार्ये ऽतिप्रसङ्गः । फलोपहितस्यैव निमित्तत्त्वेन विवक्षितत्वात् । ऐचौ प्रति फलोपधानमप्यस्तीति चेन्न । तयोर्दृद्धिशब्देनाविधानात् । के चित्तु यावद्वृद्धिजननयोग्यत्वे सति किञ्चित्फलोपहितस्तद्धितो निमित्तशब्देनोच्यते । वैयाकरणे तु ऐचं प्रति तद्धितो न निमित्तं निषधसनियोगशिकृतामात्रेणातिप्रसङ्गभङ्गात् । तेन वैयाकरणभार्ये नातिप्रसङ्गः। परिषदोण्यः पारिषद्या भार्येत्यादौ त्वाकारमात्रोपहितत्वेपि स्वरूपयोग्यता सकलाई प्रत्यस्तीत्याहुः । तस्मात् आवृत्तौ गौरवापतेः शालीयादेरसिद्धितः।मालादीनां चेति लिङ्गाद्व्याप्तिन्यायात्तथैव च ॥भाविसंज्ञात्वविज्ञाने गौरवाचेह निश्चितम् । आदैज्मात्रस्याविशेषादृद्धिसंज्ञा विधीयते ॥ अनर्थकं साध्वनुशासनं प्रयोगनियमार्थमादेशार्थमागमार्थं विशेषणविशष्यभावार्थ चेदं सूत्रमिति षट्पक्षी तु भाष्यएव निराकृतत्वादसम्भवदुक्तिकत्वाच्च नेह तन्यते। संज्ञासज्ञिभावे सत्यपि का संज्ञा कः संज्ञीत्यत्र ता. त्पर्यग्राहकास्तु बहवो न्यायाः । तथाहि । यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । तच्छब्द एवकारश्च स्यादुपादेयलक्षणमित्यभियुक्तोक्तेस्तथैवानुभवाच्च प्राथम्यन्तावत्संज्ञित्वे लिङ्गं तच्चादेगुण इत्यादौ स्पष्टमेव । वृद्धिसंज्ञासूत्रे तु मङ्गलार्थ वृद्धिशब्दस्यादौ प्रयोगेपि वक्ष्यमाणैायान्तरैरादैचां संज्ञित्त्वे निगीते सत्यादैज्वृद्धिरित्याकारकपदानुपूर्वीज्ञानानन्तरमेव वाक्यार्थबोधाभ्युपगमात्तजनकीभूतानुपूर्वीज्ञाने आदैचामेव प्राथम्यान व्यभिचारः । पदानुपूर्वीज्ञानमेव चासत्तिज्ञानमित्युच्यते ।