SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १ पा. ३ आ. शब्दकोस्तु । न्येभ्यश्छठको न भवतएवेति वाच्यम् । भाष्यकृता परिगणनस्यानाश्रयणात् । अन्यथा ऽत्रैव सूत्रे सौवीरेष्विति किं, तैकायतिरितिप्रत्युदाहरणयं न सङ्गच्छेत । तैकायानशब्दस्य तत्रापाठात् । अत एक यूनि लुगित्यत्रोदाहियते । तिकस्यापत्यं तिकादिभ्यः फिञ् तैकायनिः तस्यापत्यं युका 'फेश्छच' तैकायनीयस्तस्य छात्राः युक्प्रत्ययस्य लुकि कृते वृद्धाच्छ तैकायनीया इति। न हि सति परिगणने तैकायनेश्छः सम्भवति न वा तल्लोपः। अत एव मूनि लुक्सूत्रे स्थित्वा परिंगणनमर्वाचीनमिति हरदत्तादयोप्याहुः । अपि च फित्र सत्यानगुप्तायनेरपत्यं युवा पाग्दीव्यतोण् । तस्य ' ण्यक्षत्रियार्षत्रितो यूनि लुगणिो ' रिति लुक्याम्रगुप्तायनिरित्येवं रूपं पितरि पुत्रे चेष्यते । फिनि तु सति तन्न स्यात् । बितः परत्वाभावात् । न चाब्राह्मणगोत्रमात्रायुवप्रत्ययस्योपसंख्यानमिति तत्सिद्धिः।ब्रामणगोत्रे तदप्रवृत्तेः । किं च तद्भावितग्रहणपक्षे मालादीनां चेत्यनारम्भणीयं स्यात् । प्रस्थे वृद्धमकादीनामित्यनेनैव पूर्वपदायुदात्तत्वसिद्धेः। अपि च वृद्धिशब्दे तन्त्रावृत्याद्याश्रयणागौरवम् । मृजेवृद्धिरित्यादिविधिपदेशेष्वितरेतराश्रयणपरिहाराय सूत्रशाटकवद्भाविसंज्ञा विज्ञेया स्यादिति चापर गौरवमिति । अत्रोच्यते। आदैज्मात्रस्य बृद्धिसंज्ञानचैवं सर्वभासादाबुक्तदोषः स्यादिति वाच्यम् । उत्तरपददृद्धौ सर्व चेत्यत्र झुत्तरपदग्रहणं स्वर्यते । स्वरितेनाधिकारी विज्ञायते । तेनोतरपदस्येत्यधिकृत्य या वृद्धिर्विहिता सैव गृह्यते । यथा सर्वपाञ्चालः मुसा ज्जनपदस्यति वृद्धिः । इदं च तद्भावितग्रहणेप्यवश्यं वक्तव्यमेव । अन्यथा सर्वः कारकः सर्वकारक इत्यादावतिप्रसक्तः। एवं सावद्भार्येप्यदोषः। तत्राहल्या.
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy