________________
१ पा. ३ आ. शब् कौस्तुभः ।
१०५ या ज्ञापनात् । न चैवमपि ईहिता ईशितेत्यत्र कण्ठ्यतालव्ययोर्विवृतयोश्च हकारशकारयोस्तादृशावेवादेतौ स्यातामिति वाच्यम् । नाज्झलाविति सूत्रस्य प्रत्याख्यानावसरे ऊष्मणामीपद्विवृततायाः सिद्धान्तयिष्यमाणत्वात् । न चैवं वितृतकरणाः स्वरास्तेभ्य एओ विवृततरावित्यादि शिक्षानुरोधाच्चेता नेतेत्यादावपि गुणाप्रवृत्तिः स्याद्विवृतविवृततरत्वकृतवैलक्षण्यसत्त्वादिति वाच्यम् । तथासति विधानविषयतापत्ते, जयः करणमित्यादिनिर्देशैः क्नुसन्क्मरच्मभृतीनां कित्त्वेन चेकारादिषु गुणप्रवृत्त्यनुमानाच्च । आत्सन्ध्यक्षरव्यञ्जनेषु तु गुणायप्रवृत्तिरेवोचिता । तथा च निर्देशाः यातिवातिद्रातिप्साति,ध्यायतेः सम्प्रसा. रणं च, वहतिचिनोतिदेग्धिषु चेत्यादि । अथ क्नोः कित्त्वेनापि गुणवृद्धिविधावन्तरतमपरिभाषानुपस्थितिरेव ज्ञाप्यतामिति चेन । सत्यामपीपरिभाषायामीकारस्याकारादिनिवृत्तये ऽन्तरतमपरिभाषाया आवश्यकत्वादिति । तदेवं डओर्डित्त्वादनान्तर्यानिर्देशाच निराकृतं व्यञ्जनं भाष्यएवैच आकारश्च निराकृतः । तस्माद्व्यर्थ सूत्रमिदम् । अथ यद्युत्तरार्थता,विभज्य योगं किमिति परिभाषात्वामिष्यते । अत्रोच्यते । ङिति चेति सूत्रे चकारस्य इतिशब्दपर्यायतामाश्रित्येक इति ये गुणवृद्धी तयोनिषेध इति तावद्वक्ष्यते । अन्यथा लैगवायन इत्यत्र ओर्गुणोपि निषिध्येत । औपगवादिस्तु तस्यावकाशः। तथा पौरोहित्यमित्यत्रादिद्धिश्च न स्यात् । एवं स्थिते यदीयं परिभाषा प्रत्याख्यायते तदा कथञ्चित्तत्रतत्र गुणवृद्धिविधाविकामेव स्थानित्वपर्यवसानेपीक इति पदानुच्चारणेनेग्लक्षणत्वविरहानिधेषो न प्रवर्तेत । ततश्च कृतः कृतवान् कुरुतः छिन्नं छिन्नवानित्यादि न सिध्येत् । निषेधसूत्रं च निर्विषयं स्यात् । परिभाषाप