________________
१०६.
शब्दकौस्तुभः ।
[ १ अ० .
रित्यागपक्षे इग्लक्षणयोर्गुणवृद्धयोरप्रसिद्धत्वात् । तदेतत्स्पुटीकृतं भाष्यकृता । उत्तरार्थमेव ता सिजर्थ वृद्धिग्रहणमिति । तस्य त्ययमाशयः । यद्यपि सिचि वृद्धिरिति विधौ वक्ष्यमाणरीत्या परिशेषादिकामेव स्थानित्वं लभ्यते । तथापीग्लक्षणत्वं विना निषेधो न प्रवर्त्तेत । तस्मादुत्तरार्थ निषेधप्रवृत्त्यर्थं च वृद्विग्रहणामिति । एवं च वदता न्यायसाम्याद् गुणग्रहणस्याप्येतदेव प्रयोजनं सूचितम् । कथं पुनर्गुणवृद्धिविधौ सर्वत्र परिभाषाव्यतिरेकेणेकः स्थानित्वपर्यवसानं येन निषेधार्थता वर्ण्यतइति चेत् । शृणु । सार्वधातुकार्द्धधातुकयोर्जुसिचेतिगुणौ तावदलोन्त्यपरिभाषयाङ्गान्त्ये ऽलि प्राप्तौ प्रागुक्तज्ञापकादिभिरात्सन्ध्यक्षरव्यञ्जनेभ्यो व्यावर्त्तिताविक्ष्वेव विश्राम्यतः । मिदि पुगन्तलघूपधादिगुणेषु तु स्थानी निर्दिष्ट एव । तथाहि । मिदेगुर्ण इत्यत्र मिद इर्मिदिस्तस्य मिदेरित्यर्थः, पुक्यन्तः पुगन्तः लघ्वी उपधा लघूपधा पुगन्तश्च लघूपधाचेति समाहारद्वंद्वात् षष्ठी । न चैवं यापयतीत्यादावतिप्रसङ्गः । सन्निपातलक्षणपरिभाषयादन्तलक्षणस्य पुको गुणाप्रवर्त्तकत्वात् । ऋच्छत्यूतामित्यत्रापि द्वयोर्ऋतोर्दीर्घस्य चेति त्रयाणां प्रश्लिष्टनिर्देशः । तद्यथा । आच ऋच ऋतः ऋच्छतेरा ऋच्छत्या स च ऋतश्च तेषामिति षष्ठीतत्पुरुषद्वंद्वो भयगर्भो द्वंद्वः । ऋच्छत्त्या च आ च ऋतश्चेति त्रिपदद्वंद्वो वा । तेन ऋच्छत्यकारस्य स्थानित्वं लभ्यते । वस्तुतस्तु चतुर्णामिह प्रश्लेषो बोध्यः तेनारिवान् सर्वभ्रूणान्यारुपीत्यादावर्तेः कसौ गुणः सिद्धः पुनर्विधानसामर्थ्यात् । अन्यथा कसोः कित्करणसामर्थ्यात्तितीर्वानित्यत्रेव गुणो निषिध्येत । एतच्च वसुश्चेति सूत्रे स्फुटीकरिष्यामः । तथा ऋदृशोङीत्यत्राप्यूरङि गुण इति योगो विभज्यते । ततो दृश, उरित्याद्यनुवर्त्त -