________________
२ पा. २ आ. शब्दकौस्तुभः ।
४२३ द्घोपेपि जातिभिन्नं गुणशब्दार्थः । तदुक्तममरेण । स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदका इति ॥ सामान्ये नपुंसकस्य न्यायप्राप्तस्यापवादोयम् । तेन शुक्लं पटा इति न भवति । अनित्यश्चायमतिदेशः । संस्कृतंभक्षा इत्यादिलिङ्गात् । लक्ष्यानुरोधाव्यवस्था। हरीतक्यादिषु व्यक्तिः॥ नियमामिदम् । तेन वचनं न युक्तवत् । हरीतक्याः फलानि हरीतक्यः । गौरादिङीषन्तादनुदात्तादेश्चेति लुप् । खलतिकादिषु वचनम् ॥ अयमपि नियम एव । खलतिकस्य पर्वतस्यादूरभवानि वनानि खलतिकं वनानि । खलतिको वरणादिः । मनुष्यलुपि प्रतिषेधः ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव । चञ्चा तृणमयः पुमान् । स इव चञ्चाभिरूपः । संज्ञायामिति कन् लुम्मनुष्यइति लुप् । चर्मविकारविशेषोवधिका । स इव वधिका दर्शनीयः। तदिह द्वे वार्तिके आद्यस्य तृतीयन्तु द्वितीयस्यापवाद इति स्थितम् । इदं त्ववधेयम् । इहाभिरूपदर्शनीयपदयोर्विशेष्यलिङ्गे प्रतिषिद्धे नपुंसकत्वं प्रामोति । भाष्यकारीयोदाहरणसामर्थ्यान्न भवतीति ॥
तदशिष्यं संज्ञाप्रमाणत्वात् ॥ तत् युक्तवद्वचनम् । अशिष्यम्, अकर्तव्यम् । कुतः । संज्ञानां प्रमाणत्वात् । अयं भावः । पञ्चाला वरणा इत्यादयो न यौगिकाः । तन्निवासेपि देशान्तरे अप्रयोगात् । देशे तन्नाम्नीत्यधिकृत्यादूरभवे प्रत्ययविधानाच । किन्तु संज्ञाशब्दा एते । ते च यल्लिङ्गसख्यतया लोके प्र. सिद्धास्तत्र प्रमाणभूता एव । तदर्थप्रमाणका इत्यर्थः । यथा आपो दारा वनं गृहाः सिकता वर्षा इत्यादौ नेह शास्त्रेनुशासनमारच्यं तदर्थमपि मास्तु । किञ्च ॥