SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३ पा. १ आ. शब्दकौस्तुभः । ४४५ तिसामानाधिकरण्यं, किं कर्त्तव्यं, भोक्तव्यम्, किं कृतवान्भुक्तवानिति । किञ्च । भावयति घटमिति वच्चन्मते भवति घटमित्यपि स्यात् । तुल्यार्थत्वात् । दृष्टान्ते कर्तुः कुम्भकारस्य व्यापारं णिजाचष्टे दान्तिके त्वाख्यातप्रत्ययः । ननु प्रयोजकव्यापारो णिजर्थः कर्तृव्यापारस्त्वाख्यातार्थ इति वैषम्यमिति चेत् । कारकचक्रप्रयोक्तुः कर्तृत्वे घटस्यातथाच्त्वात् । यदि तु धातुनोक्तक्रिये नित्यं कार के कर्तृतेष्यतइति भर्तृहरिप्रतिपादितरीत्या प्राधान्येन धातूपात्तव्यापारत्वरूपं कर्तृत्वं तवापि सम्मतं कस्तर्हीींदानीमाख्यातार्थः । व्यापारस्य धातुनैवाभिहितत्वात् । अपि च । धातोः सकर्मकाकर्मकत्वविभाग उच्छिद्येत । अकर्मकाच्चेत्यादिसूत्राणि च विरुध्येरन् । ननु सिद्धान्तेऽपि क्रि यायाः कर्मापेक्षानियमात्कथमकर्मकतेति चेत् । न । फलव्यापारयोः सामानाधिकरण्यवैयधिकरण्याभ्यां सकर्मकाकर्मकविभागस्य वक्ष्यमाणत्वात् । किञ्च । ज्योतिष्टोमयाजीत्यादौ करणे यज इति णिनिरस्मत्पक्षे सङ्गच्छते । धातुत्वेन धातूपा तां भावनां प्रति यजित्वेन तदुपात्तस्यांशान्तरस्य करणत्वात् । पच्यादयो हि धातुत्वेन भावनामाहुः । विक्लित्याद्यंशान्तरे तु पाचत्वादिना प्रातिस्विकरूपेणाहुः । तचांशान्तरभावतां प्रति प्रायेण भाव्यतया सम्बध्यते । ज्योतिष्टोमयाजीत्यादौ तु करणतया ज्योतिष्टोमाख्येन यागेन स्वर्ग भावितवानित्यर्थप्रतीतेः । स्पष्टं चेदं णिनिविधौ हरदत्तग्रन्थे । एतेन द्र्यर्थः पचिरिति भाष्यं व्याख्यातम् । भट्टिश्चाह, विभज्य सेनां परमार्थकर्मा सेनापतींश्वापि पुरन्दरोथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातूनिति ।। ननु क्रियाया धात्वर्थत्वे पचतीत्यादौ एककर्तृका वर्त्तमाना पचिक्रियेति क्रियाविशेष्यको बोधो न स्यात् । प्र
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy