________________
शब्दकौस्तुभः । [१ अ० धन्यः । तस्य निमित्तं संयोगोत्पातावित्यधिकारे गोव्यचो संख्यापरिमाणावादेर्यदितिचेत् । आवृत्तिकृताद्व्यज्व्यपदेशाद्भविष्यति । न च बाहुक इत्यादौ मुख्यद्यचि चरितार्थत्वाद्गौणे कार्यासम्भव इंति वाच्यम् । अश्वादिप्रतिषेधेनेह गौणस्यापि मुख्यसमकक्षताया ज्ञापनात् । अत एव किरिणत्यादौ सावे. काचइतिविभक्तेरुदात्तत्वं न भवति । आत्तिकृतेन व्यज्यपदेशेन स्वाश्रयस्य एकाव्यपदेशस्य निवर्तितत्वात् । नहि त्रि. पुत्रो द्विपुत्रव्यपदेशं लभते । तस्मादुक्तरीत्या बाधकामावाल्लाघवरूपसाधकबलाच्चाकारव्यक्तिरेकैवेति सर्व सुस्थमितिचेन्न । उदात्तत्वादिविरुद्धधर्माध्यासेन व्यक्त्यैक्यस्य बाधात् । ध्वनिधर्मा एवैतइत्युक्तमितिचेहि कत्त्वगत्वादिकमपि तस्यैवास्त्विति अकारेकारादीनामप्यैक्यप्रसङ्गः । तदेतदुच्यते । अखण्डं पदं वाक्यं वा वाचकमिति । किं बहुना मास्त्वेव व्यंग्यो वर्णः व्यजकत्वाभिमनैर्ध्वनिभिरेव सर्वनिर्वाहात् । उक्तं च हरिणा । अनेकव्यक्त्यभिव्यंग्या जातिः स्फोट इति स्मृता । कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिता इति । तस्माद्यदि ध्वनिभिरेव निर्वाहस्तहि जातिस्फोट एव,नो चेत् कखयोरिवोदात्तानुदात्तादीनामपि भेद एवेति न्यायतः परिनिष्ठिते सति एवं ध्वनिगतान् मेदानुदात्तस्त्ररितादिकान् । वर्णा अनुपतन्तः स्युरावगतिहेतव, इतिमामांसकमतमद्धजरतीयत्वादुपेक्ष्यमितिस्थितम् । एवं च अनन्ता वर्णा इतिनैयायिकाद्यभ्युपगतरीत्या यद्ययं जातिपरो निदेशस्तार्ह अस्य चावित्यत्रापि तथैवास्त्विति किं ग्रहणकशास्त्रेण । तदुक्तम् । सवर्णेण्ग्रहणमपरिभाष्यमाकृतिग्रहणादिति । नपरसूत्रं तु जातिनिर्देशप्रयुक्तस्यैवातिप्रसङ्गस्य भङ्गाय । त्यदादीनाम इत्यादौ तु एकमात्रव्यक्तिरपि जातिविशेषणतया विवक्ष्य