________________
शब्दकौस्तुभः । [१ अ० कृत्सु च विशेषणविशेष्यभावव्यत्यासमात्रमस्तीति वक्ष्यते । यत्तु भट्टैरुक्तं । कर्तरि यदेकत्वं तत्रैकवचनं तिबिति लादिविधेद्वर्येकयोरित्यादेश्चैकवाक्यतया व्याख्यानान कर्तुर्वाच्यता सूत्रादायातीति,तदप्यापाततः। द्विवचनादिसंज्ञा ह्यादेशनिष्ठा ततश्च तद्विधिना द्वयेकयोरित्यस्य एकवाक्यता। न च तत्र कर्तरीत्यस्ति यत् द्वित्वादिविशेषणतया कथं चिद्योज्यतालविधितिबादिविध्योरप्येकवाक्यतास्तीति चेत्,सत्यम् । वाक्यैकवाक्यता सा न तु पदैकवाक्यता । आदेशविधेलविधिलभ्यलकारानुवादेन प्रवृत्तेः। लविधौ तु कर्तृग्रहणं स च द्विवचनादिसंज्ञाविनिमुक्त एव । अत एव आदेशस्मारिता लकारा बोधका इति पक्षे एकत्वादिभानायादेशा एव शरणीकर्तव्याः । एवं णलादौ तिवादिद्वारकं लिडादिस्मरणं कल्प्यमिति महदेव गौरवम् । न च परंपरासंबन्धेन णलेव बोधकः। वृत्तिशून्यत्वात् । अत एवापभ्रंशानां साधुस्मारकताभ्युपगमस्तवापीति दिक् । तस्मात्पूर्वत्रासिद्धमित्यादौ यथा आहार्यारोपेणैव व्याख्यानं सर्वसंमतं तथा शास्त्रीयप्रक्रियायां सर्वत्र । वस्तुतस्तु वाचकता स्फोटेकनिष्ठा । तत्र चाष्टौ पक्षाः ॥ वर्णस्फोटः १ पदस्फोटः २ वाक्यस्फोटः ३ अखण्डपदस्फोटः ४ तादृग्वाक्यस्फोटः ५ इत्थं पञ्च व्यक्तिस्फोटाः । वर्णपदवाक्यभेदेन त्रिविधो जातिस्फोट इति । तथा हि । किंचिद्वर्णव्यत्यासादिना शक्ततावच्छेदकानुपूर्वीभगस्य प्रतिपदमौत्सर्गिकत्वात्तत्र च केन चित्कचित्प्रथमं शक्तिग्रहात्केन कस्य स्मारणमित्यत्र विनिगमनाविरहादृशभो वृ. पभो वृष इत्यादाविव कर कार कुर चकर इत्यादीनां प्रयोगसमवायिनां सर्वेषामेव वर्णानां तत्तदानुपूर्व्यवच्छिन्नानां वाचकते. ति वर्णस्फोटपक्षः। कर्मभृतयो वाचका न वति चेह विपति