SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४४२. शब्दकौस्तुभः । [१ अ प्रमाणप्रमेयेत्यादिषु इन्द्रः सिद्धः । एतेनाविद्या तच्चितो योगः . पदस्माकमनादयः । मत्स्यादौ द्विशेषयोरित्यादिप्रयोगा व्याख्याताः। सूत्रारम्भे स्वेतेव सिद्धयेयुरेवेति सत्दयैराकलनीयम् ॥ __ ग्राम्यप सफेष्वतरुणेषु स्त्री ॥ एषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रियेत्यस्यापवादः । गाव इमाः । ग्राम्यग्रहणं किम् । सरव इमे। पशुग्रहणं किम् । ब्राह्मणाः । सधेषु किम् । एतौ गातौ चरतः । एकशेपस्यानेकविषयत्वे लब्धे सङ्घग्रहणसामर्थ्यावहूनां सङ्घो गृह्यते । अतरुणेषु किम् । वत्सा इमे । बकेरा इमे । अनेकफेष्विति वक्तव्यम् । अश्वा इमे । गर्दभा इसे । एकसफच्यात्'शेष एव । शफं क्लीबे खुरः पुमानित्यमरः । हरदत्तस्तु शफाः खुरा इति प्रायुक्त । तत्र शफशब्दस्य पुंस्त्वे मूलान्तरं मृग्यम् । उष्ट्राणां त्वारण्यत्वात स्त्रीशेषाभावः ॥ . इति श्रीशब्दकौस्तुभे प्रथपाध्यायस्य द्वितीये पादे . तृतीयमान्हिकम् ॥ पादश्च समाप्तः ॥ भूकादयो धातकः । क्रियाचाचिनो गणपठिता धातुसंज्ञा: स्युः। धातुत्वालडादयः । भवत्ति एधते । क्रियावाचिनः किम् । याः पश्येत्यादौ धातुत्वं मा भूत् । सति हि तस्मिनातोधातो. स्त्यिालोप: स्यात् । न च यामापणइत्याद्यर्थनिर्देशो नियामकः। मस्यापाणिनीयत्वात् । भीमसेनादयो ह्यर्थ निर्दिदिशरिति मर्यते। पाणिनिस्तु भवेध इत्यापाठीदिति भाष्यवार्तिकयोः स्पष्टम् । किञ्च । अभियुक्तैरपि कृतार्थनिर्देशो नार्थान्तरनिटतिपरः सुखमनुभवतीत्यादावधानुस्वासङ्गात् । उक्तञ्च । क्रियावाचित्वमाख्यातुमेकैको प्रदर्शितः । प्रयोगतानुसतव्या अनेकार्था हि धातव इति ॥ अत एव कुर्द खुर्द गुर्द गुद क्रीडायामेवेत्येव
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy