________________
३ पा. १ आ.
शब्दकौस्तुभः ।
४४३
कारः । पच्यते श्लिष आलिङ्गनइत्यादिसूत्राण्यपीह ज्ञापकानि । तस्माद्याः पश्येत्यादिव्यावृत्तये क्रियावाचिन इति विशेषणं स्थितम् । गणपठिता इति किम् । हिरुक् पृथक् ऋते इत्याद्यव्ययानां शिष्ये इति भावार्थतिङन्तस्य च मा भूत् । न चैवं सौत्रेष्वव्याप्तिः । स्तम्भ्वादीनामुदित्करणेन धात्वधिकारीयका
1
विधानेन च धातुत्वानुमानात् । न चैवमपि लौकिकानां चुलुम्पादीनामसङ्ग्रहापत्तिः । भ्वाद्यन्ते यजादिसमाप्त्यर्थं वृत्करणेपि भ्वादीनामसमाप्तेः । धातुवृत्तिषु तथैव व्याख्यातत्वात् । कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमिति कात्यायनवचनेनाप्येतल्लभ्यते । एवं भ्वाद्यन्ते वृत्करणस्य पुषादिसमाप्तयर्थतया दिवादीनामपरिसमाप्तेर्मृग्यतीत्यादिसिद्धिः । वस्तुतस्तु चुरादीनामन्ते बहुलमेतनिदर्शनमिति गणसूत्रेण सकलष्टसिद्धिः । तद्धि धातुवृत्तिषु द्वेधा व्याख्यातम् । भ्वादिगणपठितेभ्यापि णिच् प्रयोगानुसाराज्जप इति । दशगणीपाठो दिङ्मात्रप्रदर्शनार्थस्तेनान्येपि शिष्टप्रयुक्ता धातवः सङ्ग्राह्या इति च । स्यादेतत् । भूरादियेषामिति विग्रहे यणि सति भ्वादय इति स्यात् । क्रियावाचित्व ञ्च सूत्रानारूढमेवेति । उच्यते । भवनं भूः क्रियासामान्यम् । वदन्तीति वादयः वदेरौणादिक इञ् इति भाष्यम् । यद्यपि वसिवपि यजि राजि व्रजि सहि हाने वासि वादि वारिभ्य इञित्यौणादिकसूत्रेण वदेर्ण्यन्तादिञ् विहितस्तथापि बहुलग्रहणात् केवलादपि भविष्यतीति न्यासकारादयः । वस्तुतस्तु वदन्तीति वादय इति भाष्यमर्थकथनपरम् | ण्यन्तादेव त्विम् । न चेह व्यर्थानन्त्रयः । पचतिपाचयत्योस्तुल्यार्थत्वात् । भुवो वादय इति विग्रहः । तथाच क्रियावाचित्वं तावत्सूत्रारूढम् । निरनुबन्धानां शब्विकरणानां भूप्रभृतीनां पाठसामर्थ्यात्पठितानामेव संज्ञेत्यनुमीयते । सनाद्य
4