________________
१५६
शब्दकौस्तुभः ।
[ १ अ०
न्तरेष्विव लक्षणवाक्यान्तर्गतेष्वपि लक्षणप्रवृत्तिरिति दिक् । वस्तुतस्तु शरां परस्परं सावर्ण्यनिषेधे सत्यापे न क्षतिः । परः शतादिषु हि रूपद्वयं सिद्धान्तेपीष्यते । शतात्पराणीति विग्रहे कर्तृकरणे कृता बहुलमिति बहुलवचनाद्वा सुप्सुपेति वा समासे कृते पारस्करादित्वात्सुटि सकारस्य श्चुत्वम् । ततो ऽनचि चेति द्विर्वचनम् । ननु शरोचीत्यनचीति वा द्वित्वनिषेधोस्त्विति चेन । तत्र नाज्झलाविति निषेधादिकारेण शकाराग्रहणात् । ततो झरोझरीति लोपविकल्पाद द्विशकारं त्रिशकारं वा रूपमिति सावर्ण्यनिषेधेपि सिद्धत्येवेदं रूपद्वयम् । अनचि चेति द्वित्त्वस्यापि वैकल्पिकत्वात् । तत्र द्वित्वस्य वैकल्पिकत्वं यरोनुनासिके नुनासिक वेत्यतो वेत्यनुवर्तनात्सर्वत्र शाकल्यस्येति पाक्षिकनिषेधाद्वा । लोपस्य वैकल्पिकत्वं तु झयो होन्यतरस्यामित्यतोन्यतरस्यांग्रहणानुवृत्तेरित्यवधेयम् । तस्मात्सावर्ण्य सत्यसति वा परश्शता इति द्विशकारकत्रिशकारकरूपयोरविशेषः । परश्शताद्यास्ते येषां परा संख्या शतादिकादित्यमरः । एवं रामष्यष्ठोयशस्सारमित्यादावपि । अत एव भाष्ये, अपर आहेत्युपक्रम्य वार्त्तिकद्वयमप्येकहेतुतया व्याख्याय, अस्तु वा ग्रहणामिकारादिभिः शकारादीनामिति वाक्यशेषाध्याहारेण प्रतिज्ञाविकपार्थो वाशब्द इति व्याख्यातम् । तत्र अपर आहेत्यपरितोषोद्भावनम् । तद्वीजन्तूक्तरीत्या शर्पु सावर्ण्यनिषेधानिषेधयोः फलाविशेषेपि प्रागुक्तरीत्या दंडाग्रमित्यादि न सिद्धयेत् । तदर्थं च सूत्रप्रत्याख्यानस्य वाक्या परिसमाप्तिन्यायस्य वाश्र - यणे आवश्यके शरां शभिः सावयभावाभ्युपगमो निर्मूल एवेति । स्यादेतत् । अगृहीतसवर्णानामेव नाज्झलाविति निषेध इति तावत्स्थितम् । तथा चेकारादीनां शकारादिभिः सावर्ण्या