________________
१ पा. ४
आ.
शब्दकौस्तुमः ।
१५५
रम्भमभ्युपेत्येदम् । वस्तुतस्तूक्तरीत्या सूत्रमेव नारम्भणीयमित्यर्थः। ईषदित्यस्याननुवृत्तिं समानप्रयत्नताञ्च स्वीकृत्य सूत्रारम्भपक्षेप्याह । वाक्यापरिसमाप्तति । अयमाशयः । इह पूर्व वर्णानामुपदेशः तन इत्संज्ञा । तत आदिरन्त्येन सहेतेति प्रत्याहारसिद्धिः ततो नाज्झलावित्येतद्वाक्यार्थबोधः । ततोपवादविषये परिहारेण सवर्णसंज्ञानिश्चये सति ग्रहणकशास्त्रप्रवृत्तिः । न त्वेतत्सूत्रनिष्पत्तिसमये । अन्यथा तत्सूत्रेणैवेकारशकारादीनां सावर्ण्यनिषेधादिकारेण शकाराग्रहणे सत्यज्झल्त्वादिति हेतोरसिद्धया त्वदीयः पूर्वपक्षो ऽसम्भवदुक्तिक एव स्यात् । अथ पदार्थज्ञानस्य वाक्यार्थबोधहेतुतयैतद्वाक्यस्थपदार्थबोधकाले एत द्वाक्यार्थग्रहाभावादिह सूत्रे इकारेण शकारग्रहः स्यादेवेतः पूर्व सावर्ण्यनिषेधाग्रहादिति ब्रूषे तीतः पूर्व ग्रहणकशास्त्रमेव न निष्पन्नमिति कथं न पर्यालोचयेः। नन्वेवं तुल्यास्थप्रयत्न नाज्झलावित्यादावकः सवर्णे दीर्घ इति दी|पि न प्रवर्त्ततेति चेन्न । सवर्णसंज्ञायुत्तरकाले प्रवर्त्तमानस्य दीर्घशास्त्रस्य दण्डाढकादाविवहाप्पप्रतिबद्धप्रवृत्तिकत्वात् । उद्देश्यतावच्छेदकरू. पाक्रान्तत्वाविशेषात् । न च सवर्णदीर्घविधानात्पागेतत्सूत्रार्थबोधानुपपत्तिरिति वाच्यम् । पदार्थोपस्थितिप्रभृतिसामग्रीसम्पतौ सत्यां साधुत्त्वबोधकवाक्यार्थज्ञानविलम्बन शाब्दबोधे विलम्बादर्शनात् । अन्यथा व्याकरणशास्त्रपरिशीलनविकलानां कापि शाब्दबोधो न स्यात् । तथा वैयाकरणानामपि व्याकरणसूत्रघटकशब्देषु व्याकरणादेव साधुत्वबोधे तदुत्तरकाले च वाक्यार्थावगतावात्माश्रयान्योन्याश्रयचक्रकाणां दुर्वारत्वादिति दिक् । साधुत्वज्ञानं तु न शाब्दबोध हेतुः । अस्तु वाभियुक्तवाक्यत्वेन साधुत्वानुमितिः, ततः शाब्दबोधे जाते लक्ष्या