________________
१ पा. ४ आ. शब्दकौस्तुमः ।
१५७ निषेधात्कुमारी शेतइत्यादौ सवर्णदीर्घः स्यादित्याशंक्याचीस्यनुवृत्त्या समाहितम् । एवं स्थिते मालास्वित्यादौ पत्वं स्यात् । हकारेणाकारग्रहणे सति गौरीष्वित्यादिवदिणः परस्वानपायात्। किञ्च । विश्वपाभिरित्यत्र होढइति ढत्वं स्यात् । वागाशीरित्यत्र झयो होन्यतरस्यामित्याकारस्य धकारः स्यात् । गासीध्वमित्यत्र इणः पीध्वामिति मूर्द्धन्यादेशः स्यात् । दासीष्टेत्यादौ दादेर्धातोर्घ इति घत्वं स्यात् । राम आयातीत्यादौ ह. शिचेत्युत्वं स्यात् । देवा आयान्तीत्यादौ हलि सर्वेषामिति नित्यो यलोपः स्यात् । चाखायितेत्यादौ यस्य हल इति यलोप: स्यात् श्येनायितेत्यादौ क्यस्य विभाषेति लोप: स्यात् । निचाय्येत्यादौ हलो यमामिति यलोपश्च स्यादिति बहूपप्लवप्रसङ्गः । अत्रोच्यते । आकारो न हकारस्य सवर्णः । ततोप्याकार इति । अइउणसूत्रोदात्दृतशिक्षारीत्या भिन्नप्रयत्नत्वात् । सवर्णेण्ग्रहणमपरिभाष्यमाकृतिग्रहणादिति वार्तिकमते तु हकाराकारयोरेकजात्यनाक्रान्तत्वादेव नातिप्रसङ्गः । यद्वा ऽऽकारसहितोच आच् स च हल् च आज्झलाविति सूत्रे आकारमश्लेषो व्याख्येयः । तेनाकारस्याचां च हल्भिः सह साव
ये निषिध्यते । आकारमश्लेषेलिङ्गन्तु कालसमयवेलासु तुमुनित्यादिनिर्देशाः अत्र पक्षे आश्च आश्चेति द्वंद्वेन सवर्णदीर्पणच नाज्झलाविति सूत्रे दीर्घात्परः प्लुतोपि निर्दिष्ट इति व्याख्येयम् । तेन यियासो इत्यादौ गुरोरनृतइति प्लुतादाकारात्परस्य सनः सस्य षत्वं नेत्यवधेयम् । भाष्यमतेतूष्मणामीषद्वितताभ्युपगमेन सावर्ण्यप्रसक्तिरेव नास्तीति सूत्रप्रत्याख्यानात्सकलमनाविलम् ॥ इति शब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादेचतुर्थमान्हिकम् ४