________________
शब्दकौस्तुमः । .. [१ 'ईदूदे द्विवचनं प्रगृह्यम् ॥ ईदुदेदन्तं द्विवचनं प्रगृह्यसंझं स्यात् । हरी एती विष्णू इमौ गंङ्गे अमू । तपरकरणमसन्देहार्थमिति वृत्तिकाराः । अन्यथा हि यणादेशे कृते इस्वस्यायं निर्देश इत्यपि सम्भाव्येत । ततश्चाकुर्वपत्रेत्यादावतिप्रसङ्गः स्यादिति भावः । भाष्ये तु व्यक्तिः पदार्थो भेदकाश्च गुणा इति पक्षमाश्रित्य गुणान्तरयुक्तानां दीर्घाणां संग्रहार्थ तपरकरणमित्युक्तम् । इदञ्चेदिति प्रथमतकारस्यैव फलमित्यवधेयम् । तावतैव ऊकारेपि सिद्धेः । तात्पर इति पञ्चमीसमासपक्षस्यापि स्थितत्वात् । एकारस्य त्वणत्वादेवाणदित्सूत्रेण सवर्णग्राहकतासिद्धेः । ईदूतोः परमनणत्वाद् गुणान्तरयुक्तसंग्रहाय युक्तो यत्नः । तस्माद्भाष्यमतेपि ऊदेतोस्तपरकरणमसन्देहाथमेव गुणानामभेदकत्वे त्वीदि. त्यपि तथेत्यभिप्रेत्यैकरूप्यं वृत्तिद्भिरुक्तम् । इह तपर इति सूत्रे पञ्चमीसमासो मास्त्वित्यभिप्रेत्य अदिति तथा ऽतपर एवैकारो निर्दिष्ट इत्यपि सुवचम् । स्यादेतत् । असन्देहायापि क्रियमाणन्तपरत्वं प्लुतं व्यावर्त्तयेदेव । घटायोन्मीलितं चक्षुः पटं न हि नपश्यतीति न्यायात् । अथायं दकारः ऋदोरबितिवदिति चेत् । एवमप्येकारो गृह्णातु प्लुतम् । अण्त्वात् । न स्वीदूतौ । वाक्यापरिसमाप्तिन्यायेनानणत्वात् । जातिपरो निर्देश इति चेत् । तर्हि ह्रस्वेप्यतिप्रसक्तिः । दीर्घव्यक्तिरपि विशेषणीभूता विनाक्षिः तेति चेत् कथं तर्हि प्लुतसंग्रहः । न च प्लुमव्यावृत्तिरिष्टैवेति वाच्यम् । अग्नी ३ इतीत्यत्राप्लुनवदुपस्थितइति सूत्रेण प्लुतत्वप्रयुक्ते प्रकृतिभावे निषिद्धपि प्रगृह्यत्वप्रयुक्तस्य तस्येष्यमाणत्वात् । अप्लुतवदित्यस्य तु देवदत्तेतीत्यादौ चरितार्थत्वाद्वैयर्थ्य न शंक्यम् । तथा च पाष्ठे वार्तिकम् । वद्वचनं प्लुतकार्यप्रतिषेधार्थ प्लुतप्रतिषेधे हि प्रगृह्यप्लुतपतिषेधप्रसङ्गोन्येन विहितत्वादिति। अ