________________
१ पा. ५ आ. शब्दकौस्तुभः ।
१५९ त्राह भाष्यकारः। यथोद्देशं संज्ञापरिभाषमित्याश्रयणात् प्रगृह्यसंज्ञा प्रति प्लुतोसिद्धः। तथा च द्विमात्रत्वबुद्धेरप्रतिघातात् सिद्धा संज्ञा कार्यकालपक्षे परं प्रगृह्यसंज्ञाया अप्यणो प्रगृह्यस्येत्येतद्देशतया तां प्रति प्लुतस्य सिद्धत्वेनानुनासिकः प्रवर्तेतैवेति स्यादेव दोषः । एतेनानी ३ इतीत्यादौ प्रकृतिभावोपि व्याख्यातः । प्लतप्रगृह्या अचीति ज्ञापकात्स्वरसन्धिषु प्लुतस्य सिद्धत्वेपि संज्ञां प्रत्यसिद्धत्वानपायात् । यथोद्देशपक्ष एवहाश्रीयतइत्युक्तत्वात् । वस्तुतस्त्वनुनासिकप्रत्तिभयेनैवेह यथोद्देशपक्षाश्रयणम्। प्रकृतिभावस्तु कार्यकालपक्षेपि सूपपादः । न च प्रगृह्यः प्रकृत्यत्यनेनैकवाक्यतापन्नां संज्ञां प्रति प्लुतस्य सिद्धतया त्रिमात्र स्य संज्ञा दुरुपपादति वाच्यम् । प्लुतस्य सिद्धतायां वीजाभावात् । यत्तूक्तं प्लुतः प्रकृत्येत्येतदेव ज्ञापकमिति । तन्न । प्लुतशब्देन तत्स्थानिनो लक्षणया सर्वसामञ्जस्यात् । न चैवं लक्षणैव दोष इति वाच्यम् । श्रुतार्थापत्तिमूलकवाक्यान्तरकल्पनापेक्षया लक्षणाया एवाभ्यर्हितत्वात् । अस्तु वा विशेषापेक्षं ज्ञापकम् । सिद्धः प्लुतः प्लुतत्वप्रयुक्त प्रकृतिभावइति न तु प्रगृह्यत्वप्रयुक्तपि । तस्मात्कार्यकालपक्षमाश्रित्य प्रकृतिभावस्य समर्थयितुं शक्यत्वेप्यनुनासिकप्रवृत्तिवारणायैवेह यथोद्देशपक्षाश्रयणमिति स्थितम् । अत्र हरदत्तः । यद्यपि संज्ञायामसिद्धः प्लुतस्तथाप्यनुनासिकपर्युदासे सिद्ध एव, ततश्च यस्यानेन संज्ञा कृता द्विमात्रस्य न सोनुनासिकविधौ स्थानी किन्तु त्रिमात्रः । न च स्थानिवद्भावात्तस्यापि प्रगृह्यत्वम् । अल्विधित्वात् । किञ्चावश्यं सिद्धः प्लुतः स्वरसन्धिष्वित्याश्रयणीयम् । दण्ड आढकमिति प्लुतस्य दीर्पण निवृत्तियथा स्यात् । अत एव मुश्लोका ३ इति सुश्लोकेतीत्यत्र गुणो भवन् प्लुतमेव निवर्तय