________________
शब्दकौस्तुमः । [१ अ० सशिख इत्यत्र प्लुतो यथा स्यात् । क्लृप्त इति च द्वित्वम् । प्रक्लुप्स इति च स्वरितः । अत्र ह्यन्तर्भावितण्यर्थात् कर्मणि क्तः । तेन गतिरनन्तर इतिपूर्वपदप्रकृतिस्वरः । कर्मणि यः क्तस्तदन्ते उत्तरपदे तद्विधानात् । ततः शेषनिघाते कृते उदात्तादनुदात्तस्य स्वरितः । न चात्र कृपोरोलइत्यस्यासिद्धत्वाशङ्कापि । पूर्वत्वात् । परं हि पूर्व प्रत्यसिद्धं न तु परं प्रति पूर्वम् । एवं च गम्लुप्रभृ. तीनां लकारस्येत्संज्ञाप्यनायासेन सिध्यति । अन्यथा तु पुपादिद्युतालुदितइति लुकारे परतः कृतेन यणादेशेन इत्संज्ञानुवादेन च ज्ञापकेन कथंचित्साधनीया स्यात् । एवम् इदितोनुमित्याद्यनुवादानाम् ऋत्यक इत्यादिनिर्देशानां च साम्यादिकारादयोपि न निर्दिश्येरन् । यथाश्रुतसूत्ररीत्या तु ब्रूमः । ऋकारमुच्चारयितुं प्रवृत्ता कुमारी करणापाटवाद्यदा लकारमुच्चारयति तदनुकरणस्याप्यच्कार्यसिद्धिः फलम् । अनुकरणानामनुकार्येणार्थवतां सर्वत्र साधुताभ्युपगमात् । नन्वेवं लुवर्णस्य दीर्घा न सन्तीति व्याहन्येत । अनुकरणस्य तत्रापि सुलभत्वादिति चेन्न । न्यायप्राप्तस्यापि वचनेन वाधात् । इदञ्च न्याय्यभावात्कल्पनं संज्ञादिष्वितिवार्तिकालभ्यते । तथाहि । लकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थ इति पूर्ववार्तिकेन लुकारोपदेशस्य प्रयोजनत्रयमुक्तम् । दध्य्लुतकाय देहीति यदृच्छाशब्दः।कुमारीलु. जु इत्याहेत्यशक्तिजानुकरणम्। प्लुतद्विर्वचनस्वरिताश्च प्लुत्यादयः। एतदर्थ लूकारोपदेश इति हि तस्यार्थः। तत्र प्रथमप्रयोजननिराकरणायेदं वार्तिकम् ।न्याय्यभावादिति । अस्यार्थः । ऋतिस्तावदृतेरोयङितिनिर्दिष्टः सौत्रो धातुस्तस्मादौणादिकः क्युन् । तत्र ह्येवं मूत्रितम् । क्युन् शिल्पिसंज्ञयोरपूर्वस्यापीति । शिल्पिन्यभिधेये संज्ञायां च सोपपदानिरुपपदाच्च धातोः क्युन् स्यादित्यर्थः ।