SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २९८ शब्दकौस्तुभः। [१० ध्ये तु पदसंज्ञायाः पदान्तता स्वीकृत्य पदे अन्व इति भसंज्ञापि पदकार्यमिति च द्वेधा समाहितम् । तत्रान्त्ये षडिके वचनसामादिति बोध्यम् । वाचिकषडिकौ तु पञ्चमे वक्ष्येते । द्विव. चने । सुध्युपास्यः । स्थानिवद्भावनिषेधसामर्थ्यादेव बहिरङ्गपरिभाषापीह न प्रवर्तते । नाजानन्तर्यइति निषेधाज्ञा । करे इ. ति निपातनादलुक् द्वन्दश्च । वरे योजादेशः स न स्थानिवत् । यायावरः । यातेनित्यं कौटिल्ये इति यङ् यश्चयङ इति वरच् । तनिमित्तको ऽतो लोपः। स च आतो लोप इटि चेत्यालोपे कर्चव्ये न स्थानिवत् । नन्विह परनिमित्तकत्वमेव नास्ति । आधातुकइति विषयसप्तम्यभ्युपगमात् । अत एव हि अचोयदिति सूत्रे ऽग्रहणं कृतम् । अन्यथा हलन्ताण्ण्यतो विशेषविहिततया परिशेषादच एव यद्भविष्यति किं तेन । विषयसप्तम्यां तु दित्स्य पित्स्यमित्यादावजन्तभूतपूर्वादपि यत्सिद्धये अज्ग्रहणमिति यतोनाव इत्यायुदात्तस्सिध्यति । सत्यम् । वरेग्रहणेन परसप्तमी. पक्षो ज्ञाप्यते । तथा चानुदात्तेतश्च हलादेरिति सूत्रे आदिग्रहणं कृतम् । हलन्तादिति मा विज्ञायाति । अस्ति च हलन्तविशेषणस्य व्याव| जुगुप्सनो मीमांसन इति । विषयसप्तमीत्वेवि. हापि अतोलोपे हलन्तत्वाधुचा भाव्यमवति हलन्तविशेषणवैयर्थ्यात्सामर्थ्यादेवादिपरिग्रहसिद्धौ हल इत्येव ब्रूयात् । एवं च यातेर्यङन्ताक्तिचि अतो लोपे यलोपविधि प्रति स्थानिवत्त्वनिषे. घायलोपे च यायातीति स्थिते यङकारलोपस्य स्थानिवत्त्वादातों कोप इटि चेत्याकारलोपे पुनर्यलोपे यातिरिति भवति। न च पुनराकारयकारयोर्लोपे सति क्तिप्रत्ययमात्रं श्रूयेतेति वाच्यम् । आल्लोपस्य स्थानिवत्वात् । चिणोलुङ्न्यायेनासिद्धत्वाद्वा । यलोपे उदाहरणान्तरमपि । तद्यथा । कण्डूयतेः
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy