________________
५४६
शब्दकौस्तुभः ।
[ १ अ०
त्वादेरपि प्रयोगोंपाधिमात्रत्वात् । अधिशीङादिवत् । एवञ्च तथायुक्तस्थल वेहापि धातूपात्तफलाधारमात्रमर्थः । आधेयमेव वा । तच्चाभेदेन फलेन्वेति । अनन्यलभ्यः शब्दार्थ इति न्यायात् । अन्यथा तथायुक्तत्वानीप्सितत्वयोरपि वाच्यतापत्तौ सकलतान्त्रिकविरोधाच्च । एवन्तु फलाश्रयः कर्मेत्येवास्तां किं द्विसूत्र्येत्यवशिष्यते । तत्रेदमुत्तरम् । अग्नेर्माणवकं वारयतीत्यत्र माणवकस्य अपादानसंज्ञां बाधितुमीप्सिततममिति तावद्वक्तव्यं, तस्मिथोक्ते द्वेष्योदासीनयोः सङ्ग्रहार्थं तथायुक्तमित्यपि सूत्रणीयम् । अनीप्सितग्रहणन्तु शक्यं प्रत्याख्यातुम् । तथा च कर्तृकर्मविभक्त्योरुभयोरप्याधारो वाच्यः । आधेयं वा । व्यापारेण फलेन चान्वय इति तु व्यवस्थया शब्दबोधवैषम्यमिति स्थितम् । गोदोहनी पक्ता पक इत्यादिकृदन्तानां नामार्थे ऽभेदान्वयानुरोधादाधार एवार्थः फलभावनयोस्तु विशेषणविशेष्यभावो विपरीत इत्यवधेयम् ॥
तथायुक्तश्चानीप्सितम् ॥ ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कर्मसंज्ञं स्यात् । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । चौरान् पश्यति ||
अकथितञ्च ॥ अपादानादिविशेषरविवक्षितं कारकं कर्मसंज्ञं स्यात् । नटस्य शृणोतीत्यादावतिप्रसङ्गं वारयितुं परि-गणनं कर्तव्यम् । दुहियाचिरुधिप्रछिभिक्षिचित्रामुपयोगनिमितमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदाकीर्तितमाचरितं कविना || नीवह्योईरतेश्चापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं कर्तव्यमिति निश्चयः । इह प्रछीत्यत्र छेचेति तुङ् न कृतः । आगमशासनस्यानित्यत्वात् सनाद्यन्ताघातव इको यणचीतिवत् । उपयुज्यतइत्युपयोगो मुख्यं कर्म क्षीरा