________________
४ पा. ३ आ. शब्दकौस्तुमः । ५४७ दि तस्य निमित्तं गवादि दुह्यादीनां मुख्यकर्मणा सम्बध्यमानमिति यावत् । तथा ब्रुविशास्योगुणेन कारकेण कर्मणेति यावत् । कारकाणां क्रियां प्रति विशेषणत्वात् । तत्रापि कर्मण एवं प्रकृतत्वात् । यत्सचते सम्बध्यते । पच समवाये । स्वरितेत् । के चिन्तु परस्मपदिभिः सहैनं धातुं पठन्ति । षच समवाये, रप लप व्यक्तायां वाचीति । तन्मते पच सेवनइत्यस्यानुदात्तेतो धातूनामनेकार्थत्वात्समवाये वृत्तिोंध्या । उभयथापि सम्बध्नातेः कर्मव्यापारे सचिर्वर्तते । अत एव कर्तृपदस्य कर्मपदेनार्थकथनं न विरुध्यते । राध्यत्योदन इत्यस्य पच्यतइत्यनेन यथा उभयत्राप्योदनानिष्ठाविक्लित्तेर्भानाविशेषात् । कविना मेधाविना सूत्रकारेण तदकीर्तितामित्याचरितं व्यवहृतमित्यर्थः । अपूर्वविधाविति । पूर्वोक्तानामपादानादिसंज्ञानां विषयश्चन्नास्तीत्यर्थः । न चैवं वक्ष्यमाणयोर्हेतुकर्तृसंज्ञयोर्विषयतिप्रसङ्गः स्यादिति वाच्यम् । एकसंज्ञाधिकारेण पराभ्यां हेतुकर्तृसंज्ञाभ्यां कर्मसंज्ञाया बाधात् । पाञ्चस्तु पूर्वग्रहणमन्यमात्रोपलक्षणं तेन वक्ष्यमाणयोर्हेतुकर्तृसंज्ञयोर्विषये नातिप्रसङ्गः । मूत्रेप्यकथितमिति कथननिवृत्तिपरायानोदनायां भूतकालो न विवक्ष्यते । यथा पराजेरसोढ इत्यत्रासहिष्यमाणस्याप्यपादानसंज्ञा भवति अध्ययनात्पराजेष्यतइति तथेहापीत्याहुः । तच्चिन्त्यम् । उक्तरीत्या यथाश्रुतपि सर्वसामञ्जस्यात् । नीवत्योरिति श्लोके गत्यर्थानामित्युत्तरसूत्रोपात्तानामुपलक्षणम् । चकारेण जयत्यादयो गृह्यन्तइति कैयटः । माधवोप्याह । जयतेः कर्षतेमन्थेमुपेर्दण्डयतेःपचेः । तारेाहेस्तथा मोचेस्त्याजैदर्पिश्च सङ्ग्रहः ॥ कारिकायाञ्चशब्देन सुधाकर मुखैः कृत इति । एननिष्कर्षस्तु करिष्यते । क्रमेणोदाहरणानि । गान्दो