________________
४ पा. ३ आ. शब्दकौस्तुभः । ख्यफलशालित्वात् । एतेन करोतियत्नार्थक इति मतं प्रत्युक्तम् । यततइतिवदकर्मकतापत्तेः । न च जानातिवद्विषयत्वापादनपर्यंतार्थाभ्युपगमेनापि निर्वाहः । लाघवेनोत्पादनमात्रपरत्वात् । कर्तृस्थक्रियतया कर्मवद्भावासिद्धिप्रसङ्गाच्च । प्रकृतेः प्रकृतिभूतस्यात्मन उच्छेदं सम्भूतं प्राप्तम् । तद्यथा, काष्टं भस्म करोनीति । गुणान्तरोत्पत्त्या यथा, सुवर्ण कुण्डलं करोतीति । इह भस्मकुण्डलयोनिवर्त्यत्वमेवेति बोध्यम् । प्राप्यन्तु आदित्यं पश्यतीति । तथायुक्तमिति द्विविधम् । द्वेष्यमितरच्च । अकथितं चेत्यपरम् । संज्ञान्तरप्रसङ्गे चान्यत् । दिवः कर्मचेत्यादि। तदित्थंसप्त विधं कर्मेति स्थितम् । इह प्राप्ये यद्यपि विषयताख्यः क्रियाकृतविशेषोस्त्येव । अन्यथा कर्मत्वानुपपत्तेः । तथापि प्रतिपत्तृव्यतिरिक्तपुरुषापेक्षया विशेषो न गम्यतइत्युक्तम् । विकार्ये तु काष्ठादौ कथं धातूपात्तफलाश्रयतेत्यवशिष्यते । तत्रे. दं तत्त्वम् । प्रकृतिविक योरभेदविवक्षया निरूढया उत्पत्त्याश्रयता। यद्वा । काष्ठानि विकुर्वन् भस्मोत्पादयतीत्यर्थः । तण्डुलान् विल्केदयन्नोदनं निर्वत्यतीतिवत् । एतच्च व्यर्थः पचिरिति प्रक्रम्य भाष्ये व्युत्पादितम् । तत्र तण्डुलानोदनं पचतीति प्रयोगे तण्डुलनिष्ठविक्लित्तरोदनोत्पत्तेश्चानुकूलो देवदत्तनिष्ठव्यापार इत्यर्थः । तण्डुलान्पचत्यित्र तु विक्लेदयतीत्यर्थः । ओदनं पचतीत्यत्र तु विक्लित्या निवर्तयतीत्यर्थः । उक्तंच । सम्बन्धमात्रमुक्तञ्च श्रुत्या धात्वर्थभावयोः । तदेकांशनिवेशे तु व्यापारोस्या न विद्यतइति ॥ तस्माद्धातुत्वेन धातूपात्तां भावना प्रति पचित्वेन पच्युपात्ता विक्लित्तिः कर्मतया करणतया वा यथायथं सम्बध्यतइति स्थितम् । इदं त्ववधेयम् । क्रियाया धातुना कतुरपि देवदत्तादिशब्देन लामाद्यथा न द्वितीयार्थता तथेष्टनम