SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १ पा. ५ आ. शब्दकौस्तुभः । पञ्चमैराधिकैश्चतुभिः शूर्पः क्रीतमपञ्चमशूर्प, पूर्ववदअष्ठजो वा लुक् । अर्द्धपश्चमेन क्रीतमर्द्धपञ्चमकम् । अधिकग्रहणं चालुकि समासोत्तरपदवृद्धयर्थम् । धिकया षष्ठया क्रीतोधिकषाष्टिकः । अधिकसाप्ततिकः । तद्धितार्थेति समासः । प्राग्वतेष्ठञ् । अलुकीति वचनात् लुकि कर्तव्ये संख्यासंज्ञा नास्तीति द्विगुत्वमपि न तेनाध्यपूर्वद्विगोरिति लुङ् न । ततः संख्यायाः संवत्सरसंख्यस्य चेत्युत्तरपदवृद्धिः। नन्वलुकीति व्यर्थम् । उत्तरपदवृद्धयर्थमिति वचनादेव लुगमावस्या. क्षेप्तुं शक्यत्वादिति चेन्न । अर्हत्यर्थात्परेष्वर्थेषु ये प्रत्ययास्तेषां लुगप्राप्त्या तत्रैवोत्तरपदवृद्धः सावकाशत्वात् ॥ ष्णान्ता षट् ॥ षान्ता नान्ता च संख्या पदसंज्ञा स्यात् । षट् तिष्ठति पद पश्य,पञ्च सप्तेत्यादि । संख्येति किम् । विप्रुपः पामानः । ननु शतानि सहस्राणीत्यत्र नुमि कृते तस्य पूर्वभक्ततया नान्ता संख्येति षट्संज्ञा स्यादिति चेत् । अस्तु । न चैवं षड्भ्यो लुगिति लुक् स्यादिति वाच्यम् । सर्वनामस्थानसनिपातेन कृतस्य नुमः तदविघातकत्वात् । नन्वेवमप्यष्टानामिति न सिद्धयति । तथाहि । अष्टन् आमिति स्थिते परत्वानि त्यत्वाचाष्टन विभक्तावित्यात्वे कृते ऽनान्तत्वात्संज्ञायामसत्यां पट्चतुभ्यश्चेति नुन प्राप्नोतीति चेन्न । यथोदेशपक्षे आत्वात्मागेव पट्संज्ञा अन्तरङ्गत्वात् । ततः कृतेप्यात्वे एकदेशविकृ. तस्यानन्यतया षट्संज्ञकत्वेन नुटः सिद्धत्वात् । कार्यकालपक्षे तीक्तदोषस्तदवस्थ एव । किञ्च यथोदेशेप्यविधित्वादतिदेशो दुर्लभः । अत एव वश्चेत्यचः परस्मिन्नित्यस्य फलमिति कैयट इति चेन्न । अष्टनो दीर्घादिति दीर्घग्रहणेन कृतात्वस्यापि पटसंज्ञाज्ञापनात् । तथाहि । नः संख्याया इत्यायुदात्त २५
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy