________________
४०२
शब्दकौस्तुमः । [१ अ० स्वरितस्योदात्तश्च स्यात् । नितराङ्गद्यतइति निगदः । परप्रत्यायनार्थमुच्चैः पठ्यमानः पादवन्धरहितो यजुर्मन्त्रविशेषः । अपादवन्धे हि गदिर्वर्त्तते यथा गद्यमिति, नौगदनदेति कर्मण्य. प। मुब्रह्मण्याशब्दो परित्यक्तस्वलिङ्ग एव तद्वति निगदे निरूढः। सुब्रह्मण्योम् इन्द्रागच्छ हरिव आगच्छ मेधातिथेष वृषणश्वस्यमेने गौरावस्कन्दिनहल्यायै जार कौशिक ब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन्।सुब्रह्मणि साधुरिति यत् । तिवात् स्वरितः तस्य टापा सहैकादेशः स्वरितानुदात्तयोरान्तर्यास्वारितः । ततो निपातेन ओंशब्देन आमाङगश्चेत्युदात्तखरितयोरेकादेशः स्वरित एव । एकादेशउदात्तेनोदात्त इत्युदान्त विधिस्तु नेह प्रवर्तते अनुदात्तस्येत्यंनुवृत्तेः। ततः स्वरितस्य तूदात्त इति प्रकृतसूत्रेणैवोदात्त इति वृत्तिकारकैयटहरदत्तादयः । वस्तुतस्तु नेदं युक्तम्। एकादेशउदात्तेनेत्यत्रानुदात्तानुवृत्ती प्रमाणाभावात् । कावरम्मरुत इत्यत्रोदात्तपाठाच्च । अत एवं प्रातिशाख्ये उदात्तवत्येकीभावे उदात्तं सन्ध्यमक्षरमनुदात्तोदये पुनः स्वरितं स्वरितोपधे इत्युक्तम् । इह हि पूर्वार्दै अनुदात्तग्रहणमकुर्वत उत्तरत्र च कुर्वतः पुनःशब्देन पूर्वान्वयभ्रमं वारयतः स्पष्ट एवोक्त आशयः। यत्तु तस्यादित इति सूत्रे स्वरितोदात्तार्थञ्चेति वार्तिके यः सिद्धः स्वरितः सुब्रह्मण्योम् इति भाष्यं, तत्मौढिवादमात्रं निष्कर्षे तु देवब्रह्मगोरितिवत् स्वरित.. स्यतूदात्त इत्यपि नवमूव्युत्कर्षज्ञापकमवेत्यवधेयम् । इन्द्रत्यामन्त्रितमायुदात्तम् । आष्टमिको निघातस्तु भिन्नवाक्यत्वान्न भवति । द्वितीयो वर्णोनुदात्तः । उदात्तादनुदात्तस्य स्वरितः तस्यानेनोदात्तः । न चास्मिन् कर्तव्ये स्वरितस्यासिद्धत्वम् । एतस्काण्डमुत्कृष्यतइत्युक्तत्वात् । अत एवास्मिन्नुदात्ते कृते शेष