SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ २ पा. १ आ. शब्दकौस्तुमः । ४०१ भाष्यमपि । काव्यप्रकाशेपि वेदइव लोके स्वरो न विशेषाध्यवसायहेतुरिति । किमर्थं तर्हि झल्युपोत्तमं विभाषाभाषायामिति सूत्रमिति चेत्, त्रैस्वर्येण प्रक्रमे पाक्षिकानुदात्तलाभायेति गृहाण । वेति प्रकृते विभाषाग्रहणं कुर्वन्सूत्रकारोपि तन्त्रादिकमभिप्रति । यत्तु वृत्तिकृन्मतं विभाषाग्रहणं यज्ञकर्मणीत्यस्य निवृत्त्यर्थीमति,तच्चिन्त्यम् । छन्दसीत्युक्तोष तन्निवृत्तिसिद्धेः । अन्यथा पूर्वसूत्रस्य निर्विषयत्वापत्तेः । न च जपादिषु सावकाशस्य परस्य पूर्वोपवाद इति वाच्यम् । एवं हि सति परत्रैव जपादिग्रहणं कुर्यात् किं ना किश्च छन्दोग्रहणेन । एतेन अहितानामच्छन्दस्वात्तत्र सावकाशस्य मन्त्रेषु परेण बाधः स्यादिति हरदत्तोक्तं प्रत्युक्तम् । सिद्धान्तेपि अनूहितेषु पर. त्वादस्य प्राप्तिमाशङ्कय यज्ञकर्मति कर्मग्रहणसामर्थ्यात्पूर्वस्यैव प्रवृत्तिरिति स्वोक्तिविरोधात् । यदपि हरदत्तेनोक्तय, जपादिपयुदासेन मन्त्राणामेव ग्रहणमिति पक्षे विभाषाग्रहणं व्यर्थ स्यादिति । तदपि इन्द्रशत्रुप्रस्तावे दूषितमस्माभिः । य. दपीह वृत्तिकृता अग्निमीळइत्याद्यप्येकश्रुतावुदात्तं तत्सकलाध्यापकसम्प्रदायविरुद्धं, छन्दोग्रहणवैयापादकञ्च । छन्दसि व्यवस्थितो ऽन्यत्रैच्छिक इति विकल्पयोर्वेषम्य सूचयितुं हि तत् । न च लोके विकल्पस्य वृत्तिकृतानुक्तत्वादसाम्प्रदायिकत्वं वाच्यम् । भाष्यादिसम्मतरुक्तत्वात् श्वेतइत्यादेवृत्तिकतापि तत्रतत्रोदात्तत्वाच्च । इत इत्यस्य ह्यूडिदमित्यन्तोदात्तता श्वत इति तु एकोदात्तमिति कथं स्वरानुसरणे तन्त्रं स्यादिति दिक् ॥ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ॥ सुब्रह्मण्याख्ये निगदे यज्ञकर्मणीति विभाषाछन्दसीति च प्राप्ता एकश्रुतिन स्या.
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy