________________
४००
शब्दकौस्तुमः ।
एशब्दो गीतिपूरणः । निपात इत्यन्ये ।
उच्चैस्तरां वा वषट्कारः । यज्ञकर्मणि वषट्कार उच्चैस्तरां वा स्यादेकश्रुतिर्वा ! वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते । तुल्यार्थत्वात् । द्वावपि हि देवतासम्प्रदानस्य दानस्य योतकौ । वौषडित्येव तु नोक्तम् । प्रतिपत्तिलाघवेपि मात्रागौश्वात् । कारग्रहणं ज्ञापकं समुदायादपि कारप्रत्ययो भवतीति तेन एवकार इत्यादि सिद्धम् । उच्चैःशब्दोधिकरणप्रधानोपि तद्विशिष्टभवनक्रियायां वर्तते । तेन क्रियाप्रकर्षादामुप्रत्ययः । उदात्ततरो भवतीति फलितार्थः । ब्रूहिप्रेष्य श्रौषड्वौषडावहानामादेरिति सूत्रेण वौषट्शब्दस्यादेः प्लुत उदात्तो विहितस्तदपेक्षया अयमुदात्ततरोन्त्यस्य विधीयते । द्वयोरप्ययमुदात्ततर इत्येके । तदा याज्यान्तापेक्षः प्रकर्षः । अन्ये तु स्वार्थिकस्तरबित्याहुः । तत्रोदात्तमात्रं प्रथमस्य सिद्धं द्वितीयस्थानेन वि धीयते । अत्र प्रकर्षाविवक्षापक्ष एव प्रबलः । वषट्कारोन्त्यः । सर्वत्रोच्चैस्तराम्बलीयान् याज्याया इति सूत्रितत्त्वात् । सोमस्याने विहीवौषट् ॥
विभाषा छन्दसि ॥ छन्दसि एकश्रुतिर्वा स्यात् । पक्ष त्रैस्वर्यम् । सम्प्रदायाव्यवस्थितो विकल्पस्तेन बव्हचानां स्वाध्यायकाले संहितायान्त्रैश्वर्यमेव । ब्राह्मणे त्वेकश्रुतिः । शाखान्तरेष्वपि यथासम्प्रदायं व्यवस्था । अत्र तन्त्रावृत्त्यादिना अछन्दसीति न प्रश्लेषाद्भाषायामपि ऐच्छिको विकल्पो बोध्यः । तथा च दाण्डिनायनादिसूत्रे भाष्यम् । एकश्रुतिर्हि स्वरसर्वनामेत्यादि । अत एवाभियुक्तानां च विरुद्धस्वरकतत्पुरुषबहुव्रीह्माद्याश्रयणेन श्लिष्टकाव्यादिनिर्माणं सङ्गच्छते । अलं बुसानांयातेति, श्वेतो धावती तिच द्वार्थ वाक्य मिति पस्पशान्ते ।
[ १ ५०