SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ११२ शब्दकौस्तुमः । [१ अ० नदे, तौ सदित्यादि लिंगनापवादे निषिद्धे उत्सर्गोपि न प्रवर्चतइत्यस्यासार्वत्रिकत्वाभ्युपगमात् । तदेतत्तत्रतत्रोच्यते । नोत्सहते प्रतिषिद्धा सती बाधितुमिति । तथा च पक्षभेदाश्र येणातो हलादरित्यदहणमपि ज्ञापकमिति स्थितम् ॥ फलमप्यस्ति । यदि हि सिच्यन्तरंगं स्यात्तार्ह चिनीप्रभृतिभ्यो यङ्लगतेभ्यःचिरिणोतिजिरिणोतिभ्यां च लुङि सिचि अचेचायीदनेना. यीदचिरायीदजिरायीदिति न स्यात् । गुणायादेशयोः कृतयोर्यान्तानां नेति प्रतिषेधप्रसंगात् । यदि तु बाध्यविशेषचिन्तायां मध्येपवादन्यायमाश्रित्य उवच बाध्यते न तु गुण इत्याश्रीयते तदाप्येतन्न सिद्धयेदेव । तस्मात्सिचि सर्वमप्यंतरंग नास्त्येवेति सिद्धान्तं साधयितुं बाध्यसामान्यचिंतैवाश्रयणीया । एतदथमेव हि भाष्ये ज्ञापकोपन्यासः कृतः । अन्यथा न्यायेनैव सिदेन्तरंगस्यापि बाधे किं ज्ञापकवर्णनेन । एवं स्थिते न्यनुवीत् न्यधुवीदित्यत्र डितिचेति निषेध एवाश्रयणीयस्तथा चेग्लक्षणत्वसिद्धये वृद्धिग्रहणमपीह कर्त्तव्यमेवेति स्थितम् । एवं च सत्यसम्भवादपि वृद्धथा सिच्यन्तरङ्गं सर्व बाध्यते । यदि हि स्यातार्ह क्वापि सिचीगन्तमङ्गं न लभ्यतेत्यवधेयम् । तथा चेग्लक्षणत्वस्य निषेधप्रवृत्त्यर्थमावश्यकत्वे स्थिते तत्रतत्रात्सन्ध्यक्षरव्यञ्जनादिव्यावृत्तिरपीपरिभाषयैव सिध्यतीति ज्ञापकव नादिक्लेशोपि नाश्रयणीयः । न चैवं द्यौः पंथाः इममित्यादावपीपदोपस्थितिवशादिकामेवौत्वमात्वमत्वं च स्यादिति वाच्यम् । गुणवृद्धिशब्दयोरनुवृत्तौ पुनर्गुणवृद्धि ग्रहणसामर्थ्याद्धि शब्दव्यापारोप्याश्रीयते । गुणवृद्धी ये गुणवृद्धी न तु शब्दान्तरेण विहिते इत्यनुवृत्ताभ्यां विशेषणाद्वा । नन्वचश्चेति सूत्रे ह्रस्वादिग्रहणानुवृत्या संज्ञया विधाने पदोपस्थितिरिति स्थास्यति त
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy