SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १ पा. ३ आ. शब्दकौस्तुभः । ११३ सामर्थ्यादिव औत्पथिमध्यभुक्षामात्त्यदादीनाम इत्यत्रेपदोपस्थानं न भविष्यति । यदि हि स्यात्तीचश्चेत्यत्र संज्ञया विधानेतियत्नाश्रयणं व्यर्थ स्यादिति चेत् । न । दिवउदित्यादिब्वगुणवृद्धिसंज्ञकेष्वपरिभाषानिवर्त्तनेन चरितार्थत्वात् । अधन आ विभक्तावित्यादाविको ऽसंभवेन तत्र चरितार्थत्वाच । तस्मात् द्यौः पन्था इममित्यादिसिद्धयइहापि संज्ञाविधाने नियमं संपादयितुं पुनर्गुणवृद्धिग्रहणमिति प्राञ्चः । ननु पन्था इत्य. नुदाहरणम् इतोदिति सिद्धे आद्विधिसामर्थ्यादेवेपदस्यानुपस्थितेरिति चेन्न । ऋभुक्षिऋकारोकारयोरर्थे आद्विधिसम्भवात् । न चेकः सोश्चानन्तर्यविवक्षणायेन नाव्यवधानाश्रयणाच नैवमिति वाच्यम् । तथापि सम्बुद्धयर्थतया सामोपक्षयात् । न चैवमित आदित्येव ब्रूयादिति वाच्यम् । ऋभुक्षणमिन्द्रमित्यस्यासिद्धयापत्तेः । आद्विधौ हि वा षपूर्वस्येति तसिद्धिरिति दिक् । यत्तु भाष्ये स इममित्युदाहृतं,तत्र स इमं मन्त्रमपश्यदिति ब्राह्मणवाक्यैकदेशानुकरणमात्रम् । उदाहरणं त्विममित्येव न तु स इत्यपि । तच्छन्दइकोसम्भवेनेक इति नियमस्यामवृतेरित्याहुः । वस्तुतस्तु स इत्यप्युदाहरणं साध्वेव । त्यदादीनाम इति विधिवाक्यम् । तत्र चेक इत्यस्योपस्थितौ द्वीदमोरेवात्वं स्यान त्वन्येषाम् । गणेन निर्देशस्तु संज्ञोपसर्जनव्यावृत्त्यर्थमुत्तरार्थ च स्यात् । तदोः सः साविति सत्वं हि त्यदादीनामेव तदोविधीयते । अत्रेदमवधेयम् । शब्दव्यापाराश्रयणानुरोधेनापि गुणवृद्धिग्रहणं मास्तु । इकस्तावित्येतावतैव सिद्धेः । वस्तुतस्तु तावित्यपि व्यर्थम् । इक इत्येव सूज्यताम् । सम्पूर्ण पूर्वसूत्रद्वयमनुवर्त्य वृद्धिरित्यादैचौ यत्र विधीयेते गुण इति चादेङग तत्रेक इत्युपतिष्ठतइति व्याख्यानात् । व्याख्याने लिङ्गन्त्वितोदिती १५
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy