________________
११४ शब्दकौस्तुभः ।
[१ अ० द्रहणम् । अन्यथा तत्रापीपदोपस्थितायुक्तरीत्या येन नाव्यवधानन्यायाहकारोकारव्यावृत्तौ च सत्यां किं तेनेति । तदेतदिग्ग्रहणं किमर्थमिति भाष्येणेग्ग्रहणमात्सन्ध्यक्षरेत्यादिवार्तिकेन च मुच्यते । अन्यथा हि मूत्रं किमर्थमित्यायेव ब्रूयात् । यत्ततरार्थ गुणवृद्धिग्रहणं कर्त्तव्यमेवेत्याशयेनेग्ग्रहणमित्युक्तमिति भाष्याभिप्रायवर्णनम् । तन्न । पूर्वसूत्रानुवृत्त्यैव सिद्धावुत्तरार्थत्वस्यापि दुरुपपादत्वात् । समुदायापेक्षायां मण्डूकप्लुतेः सम्बन्धानुवृत्तेवों त्वयापि वाच्यत्वात् । इग्ग्रहणस्याप्युत्तरार्थतया तदंशे. पि शङ्कानुत्थानाच्च । इक इति योगः किमर्थ विभज्यतइति प्रश्नवीजमिति चेत्तार्ह गुणवृद्धयंशेपि तस्याविशिष्टतया सूत्रं किमर्थमित्येव ब्रूयादिति दिक् । यत्तु प्रधानावयवद्वारा समुदायाक्षेपोयमिति,तदपि नातीव शब्दस्वरसानुगुणम् । तस्मादुक्त एवाशयः साधुः । न चैवगुणवृद्धयधिकारे पुनर्गुणवृद्धिग्रहणसामर्थ्यादित्युत्तरग्रन्थासङ्गतिः । तस्य यथाश्रुताभिप्रायकत्वात् । ग्रहणपदस्यानुवृत्तिपरतया सम्पूर्णसूत्रद्वयानुवृत्तिपरतया सम्पू
सूत्रद्वयावृत्तिसामर्थ्यपरत्वाद्वति दिक् । एवं चेक इति योगविभाग एवं पूर्वपक्षसिद्धान्ताभ्यां समर्थ्यतइतीह पर्यवसितोर्थः । ततश्चानेनैकेन योगविभागेन सकलेष्टसिद्धौ मृजेर्वृद्धिरच, उरडि गुण, इत्यादि बहुतरयोगविभागाद्याश्रयणेनान्यथासिद्धिवर्णनं नादर्तव्यमिति स्थितम् । इयं च परिभाषालोन्त्यपरिभाषायाः शेषो वा शेषिभूता वा तया सह समुच्चिता वा वैकल्पिकी वा तदपवादो वा पूर्वविप्रतिषेधात्तद्वाधिका वा पदोपस्थापिका वेति सप्तपक्षाः सम्भाव्यन्ते यद्यपि, तथाप्याद्यानां षण्णां दुष्टत्वात्सप्तम एव सिद्धान्तितः। तथाहि । सार्वधातुकार्द्धधातुकयोरित्यत्र स्वस्वनिमित्त