SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १पा. ३ आ. शब्दकौस्तुभः । १११ तथाहि । येन नाप्राप्तिन्यायेनान्तरङ्ग. वृद्धथा बाध्यते । सत्यपि सम्भवे बाधनं भवतीत्यभ्युपगमात् । अन्यथा तक्रेण दाध न बाध्येत । नमकजादिभिश्च शप्पत्ययकप्रत्ययादयो न बाध्येरन् । देशभेदनोभयसम्भवात् । न च मध्येपवादन्यायेनोवडेच वृद्धया बाध्येत न तु गुणोपीति वाच्यम् । बाध्यस्य भेदेन विवक्षायां ह्येतदेवं स्यात् । बाध्यस्य सामान्यचिन्तायां तु स्वविषये प्राप्तं स्वानपवादभूतं सर्व बाध्यते, यथा ऽचिरइत्यतेन गुणदीर्घोत्वानि । अन्यथा तत्रापि मध्येपवादन्यायेन रेफो दीर्घोत्वे एव बाध्येत न तु गुणम् । तस्य परत्वात् । बाध्यस्य च क्व चिन्देन चिन्ताक्व चित्सामान्यरूपेणेत्युभयमपि लक्ष्यानुरोधात्तत्रतत्राश्रीयते।णिश्विग्रहणं चात्र लिङ्गम् । अन्यथान्तरङ्गत्वाद् गुणायादेशयोः कृतयोर्यान्तानां नेति निषेधादेवौनयोदश्वयादित्यादेः सिद्धौ किं णिश्विग्रहणेन । ज्ञापकान्तरमप्युक्तं भाष्ये । यच्च करोत्यकारग्रहणं लघोरिति कृतेपीति । अस्यायमाशयः । अतो हलादेरिति सूत्रे ऽद्ग्रहणस्य न तावत्सन्ध्यक्षरादिकं व्यावर्त्यम् । लघुग्रहणेनैव व्युदासात् । इदुदृतः परमवशिष्यन्ते अचेनीदकोषीदनःदिति । तेप्यन्तरङ्गेण गुणेनापहृताश्चेत्तर्हि व्यर्थमदहणं स्यात् । न चाकुटीदपुटीदित्यादात्रुकारव्युदासाय. तदिति वाच्यम् । तत्राप्यन्तरङ्गेण गुणेन वृद्धिबाधे सति गुणे डिवान्निषिद्धपि वृद्धरप्रवृत्तेः। न हि देवदत्तस्य हन्तरिहते देवदत्तस्य पुनरुन्मज्जनं भवतीति न्यायात् । अत एव नान्तः पादमिति पाठे पूर्वरूपनिषेधे सत्ययादयोपि न प्रवर्तन्ते । तेन सुजाते अश्वसूनृते इत्यादि च सिध्यतीति स्वीकृतं भाष्ये । न चैवमपवादाभावे पुनरुत्सर्गस्य स्थितिरिति निर्विषयं स्याद् वृक्षावित्यादौ नादिचीति पूर्वसवणे निषिद्धे वृद्धिश्च न प्रवर्ततेति वाच्यम् । भिद्योद्धयौ
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy