________________
११०
शब्दकौस्तुभः ।
[ १ अ०
द् गुणावादेशयोः कृतयोरतोलान्तस्येत्यत्र लोपोव्योरिति लोपेन वकारस्यापि व्याख्यानाभित्या वृद्धिर्भविष्यति । मा भवान वीत् । अमवीदित्यत्रापि तर्हि नित्या वृद्धिः स्यादिति चेन्न । णिविग्रहणमपनीय तत्स्थाने अविमन्योः प्रक्षेपेण वृद्धिनिषेधात् । न त्यस्मिन्पक्षे णिश्विग्रहणमुपयुज्यते । औनयीदश्वयीदित्यत्रान्तरङ्गत्वाद गुणायादेशयोः कृतयोर्यान्तानां नेत्येव निषेधसिद्धेः । नन्वेवमवेोरिव मवेरपि नित्यं निषेध एव स्यात् । इष्यते तु त्रिकल्पः । नैष दोषः । अतो लान्तस्येत्यत्र वकार - श्लेषेण या नित्या वृद्धिः प्राप्ता सेवेह विमव्योर्नेत्यनेन मवे र्निषिध्यते न त्वतोहलादेरित्येवापि । मध्येपवादाः पूर्वान्वि धीन्बाधन्ते नोत्तरानिति न्यायात् । न चैवं जागर्त्तेरपि तथा प्रसङ्गः । तत्र बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्व बाध्यतइति स्वीकारात् । यद्वा । अपवादे निषिद्धे उत्सर्गों न प्रवर्त्ततइति जागर्त्तावाश्रयणीयं मवतौ तु प्रवर्त्ततइति बाध्यतामान्यविशेषचिन्तयोर्वाधिके निषिद्धे बाध्यस्य प्रवृत्यप्रवृत्योथ लक्ष्यानुरोधेन व्यवस्थाया अनुपदमेव वक्ष्यमाणत्वात् । न चैवमवदित्यत्रापि नित्या वृद्धिः स्याद्वकारप्रश्लेषादिति वा च्यम् । सिचि वृद्धेरिवास्या अपि धातुग्रहणेन वारणात् । तस्मात्सिच्यन्तरङ्गाश्रयणेनैवानुवीदधुवीदित्यादेः सिद्धौ क्ङिति चेति प्रतिषेधस्यानपेक्षणाद्वृद्धिग्रहणं व्यर्थमेवेति । अत्रोच्यते । वकारमश्लेषे सति शवतिर्गतिकर्मा कम्बोजेषु विकार एवैनमार्या भाषन्तइति पस्पशायां भाष्यकारैरभ्युपगतस्य शब्धातोरपि नित्यवृद्धिप्रसङ्गः, तस्यापि प्रतिषेधे वा कथं णिश्विभ्यां निमानम् । गौरवप्रसङ्गात् । किञ्च । न वयं व्यसनितया सिच्यन्तर नास्तीति ब्रूमः । किन्तु न्यायवलाज्ज्ञापकवलात्फलानुरोधाच्च ।
1