SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३६२ शब्दकौस्तुमः। [१ अ. शैष्टकारो न पूर्वान्त इति निर्णयादिति भावः । नन्वेवमपि टकारान्तस्य सङ्घस्य टाटकारोन्त्यो भवत्येवेति चेन्न । व्यवसितान्त्यताविरहात् । इह हि अन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्र. त्याहार इति सुडनपुंसकस्येतिसूत्रे हरदत्तः। न चैवं रमत्याहारासिद्धिः । लणसूत्रे ऽनुनासिकप्रतिज्ञासामर्थ्यांदनन्त्येनापि प्रत्याहारांत् । इदं तु वक्तव्यम् । औटष्टित्वस्यानन्यार्थतया तेनैव सुमत्याहारः । प्रत्यासत्तेश्च । तथा चान्त्यग्रहणं मास्त्विति । अत्रेदं समाधानम् । मध्यमेनेता सहित आदिस्तदुत्तरेषामपि ग्राहको मा भूत् । एवमन्त्येन सहितो मध्यमः पूर्वेषां संज्ञा मा भूदित्यादिग्रहणम् । इतेति किम् । रमत्याहारो यथा स्यात् । स ह्यनन्त्येनाप्यनुनासिकप्रतिज्ञासामयोद्भवतीत्युक्तम् । न चैतदितेत्यस्य विरहे लभ्यते । न.. वीनास्तु सहासमन्तादेतीति सहेता मध्यमो वर्णः । अन्त्येनादिः अणित्यादिसंज्ञको भवतीत्यर्थः । आद्यन्तसमभिव्याहाराच्च । सहेता मध्यमो वर्णो लभ्यते । स्वरूपमिति चानुवर्तते। वृद्धिगुणादिसंज्ञास्विवेहापि सामानाधिकरण्यात्संज्ञात्वावगतिः। अस्मिंश्च व्याख्याने हलन्त्यमित्यत्रेतरेतराश्रयशङ्कापि नास्तीत्याहुः । आद्यन्तावयवद्वारा समुदायानुकरणेन सिद्धेन्त्यव्यावृत्तये इदम् ॥ .. येनविधिस्तदन्तस्य ॥ विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य । एरच, चयः । जयः । अयः । ओरावश्यके, अवश्यलाव्यम् । इह येनेति करणे तृतीया न तु कर्तरि कुद्योगलक्षणषष्ठया बाधितत्वात् । विधिरित हि कमणि किप्रत्ययः । तेन कर्मणोभिहितत्वादुभयप्राप्ताविति नियमस्य नायं विषयः । करणं च परतन्त्रं कधिष्ठितस्यैव
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy