________________
१ पा. ९ आ.
शब्दकौस्तुभः
३६१
व्यञ्जकरूपं केषां चिदेव ताल्वादिव्यापारजन्यानामेव न तु भेर्यादिजन्यानामपि । कुतः । स्वभावतः । कारणवैलक्षण्यात् । अत्रोभयमिति भावप्रधानो निर्देशः । उभयरूपतेत्यर्थः ॥
1
आदिरन्त्येन सहेता || अन्त्येनेता सहोच्चार्यमाण आदिवर्णो वर्णसङ्घातो वा मध्यगानां संज्ञा स्यादादेः स्वरूपस्य च । वर्णो यथा अल् । सङ्घातस्तु कृञ् । इह ह्यभूततद्भावे कृभ्वस्तीत्यतः कृञो द्वितीयेति नकारेण प्रत्याहारः । आद्यन्तौ तावदaraौ । ताभ्यामवयवी समुदाय आक्षिप्यते । तस्य च युगपल्लक्ष्ये प्रयोगाभावात्तदवयवेषु संज्ञावतरन्ती म ध्यमेषु विश्राम्यति न त्वाद्यन्तयोः संज्ञास्वरूपान्तर्भावेण तयोः पारार्थ्यनिर्णयात् । अतः स्वरूपमित्यनुवर्त्तते । स्वं रूपं चादेरेव गृह्यते नान्त्यस्य । अप्राधान्यात् । अन्त्येनेति प्रधाने तृतीया । तेन दध्यत्रेत्यादौ केवल एव यकारः प्रवर्त्तते न णकारसहित इति कैयटादयः | अत्रेदं वक्तव्यम् । प्रत्याहारेध्वाद्या वाचकास्तत्र ग्रहणकशास्त्रं सावकाशमिति ग्रहणकशा - स्वस्थभाष्यादिपर्यालोचनया वाचकत्वं तावदाद्यवर्णे विश्रान्तमन्त्यस्तु तात्पर्यग्राहकः । सहग्रहणात्तु विशिष्टाद्विभक्तुत्पत्तिरिति द्योतकान्तरवैषम्यमिति स्थितम् । तत्रान्त्यस्येत्संज्ञयापत्तस्य कथं संज्ञित्त्वप्रसक्तिः । अन्यथाजादिसंज्ञानामपि कारादावतिप्रसक्तेः क उद्धारः । किञ्चास्तु विशिष्टस्य यसंज्ञा तथापि दध्यत्रेत्यत्र यण्शब्दापादनमसङ्गतमेव । न्यायसाम्यनेकशब्दस्यैव स्थानित्त्वप्रसक्तया इकारस्य स्थानित्वासम्भवात् । अन्त्येनेति किम् । सुडिति तृतीयैकवचनाववेन मा भूदिति वृत्तिकाराः । टाङसिङसामित्यादिनिर्दे