SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ १ पा. ९ आ. शब्दकौस्तुमः । करणत्वात् । एवं चेह तृतीयया पारतन्यं लक्ष्यते सुब्विभ. क्तौ न लक्षणेति नैयायिकोद्घोषस्तु निर्मूलः । न च प्र. त्ययानुशासनवैयथ्यापत्तिस्तन्मूलम् । तिक्ष्वपि तस्य तुल्य. त्वात् । रथो गच्छतीत्यादौ व्यापारे लक्षणायास्त्वयापि स्वीकारात् । अत एव प्रयाजशेषेण हवींष्यभिघारयतीत्यत्र प्रयाजशेषं हविष्युक्षारयेदिति मीमांसका व्याचख्युरिति दिक् । न च एरजित्यादाविकारादीनां पारतन्त्र्यं धात्वादीनां च स्वातन्त्र्यं वास्यादीनामिव तक्षादीनामिव च स्वरूपतः सम्भवति किं तु वैवक्षिकम् । तेन विशेषणमप्रधानं तच्चात्मान्तस्य विशेष्यस्य संज्ञेति फलितम् । विशेष्यसन्निधौ च विशेषणत्वं भवति सनिधिस्तु कचित्साक्षानिर्देशेन यथा ईदूदेद्विवचनम्पगृह्यमिति द्विवचनस्य, क चिच्छब्दाधिकारात् । यथा एराजत्यत्र धातोः, क चिदाक्षेपायथा इकोझलित्यत्र सना धातोः । इकोयणचि, एचोयवायाव इत्यादौ तु न कथं चिदपि विशेष्यस. निधिः । अतो नेदं प्रवर्त्तते । स्यादेतत् । उदोष्ठयपूर्व स्येत्यत्र ओष्ठ्यपूर्वकत्वं धातोरेव विशेषणं स्यान तु ऋकारस्य । स हि विशेषणत्वादन्तस्य संज्ञा । संज्ञा च संजिनं प्रत्याययति न तु स्वयं विशेषणादियोगमनुभवति । ततश्च सङ्कीर्णमित्यादावतिव्याप्तिः। पूर्तमित्यादावव्याप्तिश्च । एवमुतश्चप्रत्ययादित्यत्राप्यसंयोगपूर्वत्वमङ्गस्य प्रत्ययस्य वा विशेषणं स्यान तुकारान्तस्य ततश्चाश्नुहीत्यादावतिव्याप्तिः । विशेषणं च यद्यङ्गस्य तदा तक्ष्णु हि इत्यादावतिव्याप्तिः । अथ प्रत्ययस्य, तार्ह तक्ष्णुहीत्यादि सिद्धयतु अश्नुहीत्यादौ तु दोष एवेति । अत्राहुः । गुणप्रधानभावसापेक्षेयं संज्ञा । तथा च उतश्चमत्वयादित्यादौ विशेषणसम्बन्धवेलायां गुण
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy