SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । [ १ अ० यदीणग्रहणं पूर्वेण स्यात्, तत्तु परेणैवेति स्थितम् । अथ परेग्रहणे हलोपि के चिदन्तर्भवन्तु नाम । अजानन्तर्यन्तु न गतमित्याशयः । तर्ह्यस्तु कथं चिज्ज्ञापकनिर्वाह: । अयजइन्द्रं वृक्षइन्द्रमित्यादौ परत्वात्सवर्णदीर्घस्तु दुर्वारएव । न ह्यत्रासिद्धं बहिरङ्गामीति प्राप्नोति । नाजान्तर्यइति निषेधात् । नन्वन्तरङ्गं बलवदिति परिभाषान्तरेणेदं सिद्धयति । तथा च विप्रतिषेधसूत्रे अन्तरङ्गं चेत्युपक्रम्य इण्डिशीनामाद्गुणः सवर्णदीर्घत्वादिति प्रयोजनं पठितमिति चेत् । सत्यं पठितम् । किन्तु बहुतमप्रयोजनानि पठित्वा असिद्धपरिभाषयैव गतार्थत्वान्नेयं कर्त्तव्येत्युपसंहृतम् । एतेन प्रकृतसूत्रे पदव्या मृद्वयेत्युदाहरणदूषणप्रस्तावे ऽसिद्धपरिभाषां भाष्यकारैरुदाहृतामन्तरङ्गम्बलीय इत्येतदुपलक्षणतया व्याचक्षाणापि कैयटः प्रत्युक्तः । विप्रतिषेधसूत्रस्थभाव्यविरोधात् । तस्मादिह सिद्धान्ततत्त्व मन्यदेव वक्तव्यमिति । उच्यते । अन्तरङ्गपरिभाषाया निरपवादत्वादसिद्धपरिभाषायास्तु नाजानन्तर्य इति सापवादत्वादुभयोरावश्यकता । विप्रतिषेधसूत्रस्थं भाष्यन्त्वभ्युच्चयपरमेवेति भागवृत्तिकाराः । कैयटलघुविवरणादयोप्येवम् । बृहद्विवरणकारास्तु । नाजानन्तयइति परिभाषा मास्तु । तज्ज्ञापकतया यत्सम्मतं तेनासिद्धपरिभाषाया अनित्यत्वमेव ज्ञाप्यतइत्याहुः । अस्मिथ पक्षे विप्रतिषेधसूत्रस्थं नाजान्तर्य इति भाष्यमप्यनित्यत्वपरतया भङ्क्त्वा नेयम् । अन्यथा हि तत्रैवान्तरङ्गं बलीय इत्यस्य प्रत्याख्यानं विरुध्येत । अत एव वृत्तौ नलोपः सुप्स्वरेत्यत्र वृत्रहभ्यामित्यत्र नलोपस्यासिद्धत्वात् ह्रस्वस्येति तुक नेत्युपक्रम्य संनिपातवहिरङ्गपरिभा पाभ्यां गतार्थतामाशङ्क्य परिभाषाद्वयस्याप्यनित्यतां ज्ञापयितुं `तुंग्ग्रहणमित्युक्तम् । अत एव तत्र मिश्रैरप्युक्तम् । बहिरङ्गपरि - २९०
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy