________________
१ पा. ८ आ.
शब्दकौस्तुभः ।
२८९
युक्तः पन्थाः । ननु पञ्चमीसमासो मास्त्विति वदतो मते तन्वन्तीत्यत्रेट् स्यादिति कुतो नोद्भावितमिति चेन्न । बहिरङ्ग - स्य यणोसिद्धत्वात् । न च नाजानन्तर्यइति निषेधः । अनन्तरे कार्यविधौ यत्राच आनन्तर्यमिति कैयटेना भ्युपगमात् । कथं तर्हि तन्वन्तीति पञ्चमीसमासोदाहरणं प्राग्दत्तमिति चेत् | हरदत्तमतेनेत्यवेहि । स हि यत्रान्तरङ्गे बहिरङ्गेवा अ चोरानन्तर्यमिति व्याख्यत् । नन्वेवं नपदान्तसूत्रे दध्यत्रेति वृत्तिमुपादाय स्थानिवद्भावप्रतिषेधसामर्थ्याद्वहिरङ्ग परिभाषा न प्रवर्त्ततइति मिश्रोक्तिर्विरुध्येत । बहिरङ्गे यणि अचोराश्रयणेन नाजानन्तर्यइति निषेधादेव परिभाषाया अप्रवृत्तेः । किञ्च सं योगान्तस्य लोप इति सूत्रे असिद्धं बहिरङ्गमिति परिभाषामाथित्य क्रियमाणं यणः प्रतिषेध इति वार्त्तिकस्य प्रत्याख्यानमपि विरुध्येत । अपि च । लणिति सूत्रे उरणपर इति परेण चेत्कर्त्रर्थमित्यत्र रेफद्वयं श्रूयेतेत्युक्तं तदपि विरुध्येत । रोरीति लोपसम्भवात् । असिद्धपरिभाषायाश्वोक्तरीत्या निषेधात् । किञ्च नधातुलोपइति सूत्रे प्रेद्धमित्यत्रत्यभाष्येण संयोगान्तस्येत्यत्र यण इत्यस्य प्रत्याख्यानभाष्येणापि विरोधः । किञ्च एत ऐ इत्यत्र पचावेदमित्यादौ अतिप्रसङ्गमाशंक्य बहिरङ्गतया स्वीकृतं समाधानमपि भज्येतेति दिक् । तस्माद्धरदत्तकृता व्याख्या पूर्वापरस्वग्रन्थेन भाष्येण च विरुद्धेति चेत् । सत्यम् । अत एवम व्याख्यां नधातुलोपसूत्र एवानुपादेयामवोचाम । केण इत्यादि - ज्ञापकान्नाजानन्तर्यइत्यस्यानित्यतामाश्रित्य वा कथंचित्समर्थनीयम् । स्यादेतत् । कैयटमतेप्यचोरिति द्वित्वं विवक्षितं न वा । आधे मूलभूतज्ञापकविरोधः । नहि कोसिचत्कोस्येत्यादावनन्तरे पत्वविधावचोराश्रयणम् । द्वितीये तु मूलभूतं ज्ञापकं सम्भवेत्
३७